________________
श्रीपञ्चव. अनुयोगानुज्ञा ४
॥ १४२ ॥
Jain Education Interr
सो थेवओ वराओ गंभीरपयत्थभणिइमग्गंमि । एगंतेणाकुसलो किं तेसि कहेइ सुहुमपयं ? ॥ ९३८ ॥ | जंकिंचिभासगं तं दट्टण बुहाण होअवण्णत्ति । पवयणधरो उ तम्मी इअ पवयणाखिंसमो आ ॥ ९३९॥ अनुयोगो व्याख्यानमुच्यते ' जिनवरवचनस्य' आगमस्य, तस्यानुज्ञा पुनरियं, यदुत कर्त्तव्यमिदं व्याख्यानं भवता विधिना, न यथा कथञ्चित्, सदाऽप्रमत्तेन सर्वत्र समवसरणादाविति गाथार्थः ॥ ३४ ॥ कालोचिततदभावे - अनुयोगाभावेवचनं निर्विषयमेवैतदिति - तदनुज्ञावचनं, दृष्टान्तमाह- 'दुर्गतसुते' दरिद्रपुत्रे यथेदं वचनं, यदुत दद्यास्त्वमेतानि रत्नानि, रत्नाभावान्निर्विषयं तथेदमप्यनुयोगाभावादिति गाथार्थः ॥ ३५ ॥ असत्प्रवृत्तिनिमित्तापोहायाह - किमपि यावत्तावद - धीतमित्येतदालम्बनं न तत्त्वत्तो भवति गुणैर्गुरुणामत्र- व्यतिकरे, कुशादितुल्यम्, अनालम्बनमित्यर्थः, कस्माद् ? - अतिप्रसङ्गात्, स्वल्पस्य श्रावकादिभिरप्यधीतत्वात्, अतो मृषावादो गुरोस्तदनुजानत इति गाथार्थः ॥ ३६ ॥ ' अनुयोगी ' | आचार्यः लोकानां किल संशयनाशको 'दृढम्' अत्यर्थे भवति, तं ' अल्लियन्ति' उपयान्ति ततस्ते लोकाः प्रायः, किमर्थमित्याह- 'कुशलाधिगमहेतोः' धर्म्मपरिज्ञानायेति गाथार्थः ॥ ३७ ॥ ततः किमित्याह-स स्तोको वराकश्च अल्पश्रुत इत्यर्थः, 'गम्भीरपदार्थ भणितिमार्गे' बन्धमोक्षस्वतत्त्वलक्षणे एकान्तेनाकुशलः - अनभिज्ञः किं तेभ्यः कथयति - लोकेभ्यः सूक्ष्मपदं - वन्धादिगोचरमिति गाथार्थः ॥ ३८ ॥ ततश्च यत्किञ्चिद्भाषकं तम् असम्बद्धप्रलापिनमित्यर्थः, दृष्ट्वा 'बुधानां ' विदुषां
For Private & Personal Use Only
कालोचितसूत्रार्थता
॥ १४२ ॥
www.jainelibrary.org