________________
Jain Education Inter
'एवम्' उक्तेन प्रकारेण व्रतेषु स्थापना 'श्रमणानां' साधूनां वर्णिता 'समासेन' सङ्क्षेपेण, अनुयोगगणानुज्ञां प्रागुद्दिष्टामतः परं किमित्याह - 'सम्प्रवक्ष्यामि' सूत्रानुसारतो ब्रवीमीति गाथार्थः ॥ ३१ ॥ किमित्ययं प्रस्ताव इत्याहजम्हा वयसंपन्ना कालोचिअगहिअसयलसुत्तत्था । अणुओगाणुन्नाए जोगा भणिआ जिणिंदेहिं ॥ ९३२॥ | इहरा उ मुसावाओ पवयणखिंसा य होइ लोगम्मि । सेसाणवि गुणहाणी तित्थुच्छेओ अ भावेणं ॥ ९३३ ॥
यस्माद्वतसम्पन्नाः साधवः कालोचितगृहीतसकलसूत्रार्थाः, तदात्वानुयोगवन्त इत्यर्थः, 'अनुयोगाज्ञायाः' आचार्यस्थापनारूपायाः योग्या भणिता जिनेन्द्रः, नान्य इति गाथार्थः ॥ ३२ ॥ कस्मादित्याह-दारगाहा, 'इतरथा' अनीदृशानुयोगानुज्ञायां मृषावादो गुरोस्तमनुजानतः, प्रवचनखिसा च भवति लोके, तथाभूतप्ररूपकात्, शेषाणामपि च गुणहानिः सन्नायः काभावात्, तीर्थोच्छेदश्च भावेन ततः सम्यग्ज्ञानाद्यप्रवृत्तेरिति द्वारगाथार्थः ॥ ३३ ॥ व्यासार्थं त्वाहअणुओगो वक्खाणं जिणवरवयणस्स तस्सऽणुण्णाओ । कायवमिणं भवया विहिणा सइ अप्पमत्तेनं ९३४ कालोचिअतयभावे वयणं निविसयमेवमेअंति । दुग्गयसुअंमि जहिमं दिजाहि इमाई रयणाई ॥ ९३५ ॥ किंपिअ अहिअंपि इमं णालंबणमो गुणेहिं गरुआणं । एत्थं कुसाइतुलं अइप्पसंगा मुसावाओ ॥ ९३६ ॥ अणुओगी लोगाणं किल संसयणासओ दर्द होइ । तं अलिअंति तो ते पायं कुसलाभिगमहेउं ॥ ९३७॥
For Private & Personal Use Only
www.jainelibrary.org