SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ अ. २४ Jain Education Inter पायं च तेण विहिणा होइ इमंति निअमोकओ सुत्ते । इहरा सामाइअमित्तओऽवि सिद्धिं गया ऽणंता ॥ ९९०॥ पुविं असंतगंपि अ विहिणा गुरुगच्छमाइसेवाए । जायमणेगेसि इमं पच्छा गोविंदमाईणं ॥ ९९९ ॥ 'विश्रोतसिकारहितः' संयमानुसारिचेतो विघातवर्जितः सन् 'एवम्' उक्तेन प्रकारेण गुर्वासेवनादिना चरणपरिणाममचिन्त्यचिन्तामणिरूपं रक्षेत, दुर्लभं खलु लब्धं सन्तम्, अलब्धं वा प्राप्नुयादेवमेवेति गाथार्थः ॥ ८ ॥ एतदेव भावयन्नाह - नोपस्थापनायामेव कृतायां सत्यां नियमाच्चरणमिति, कुत इत्याह- द्रव्यतो येन कारणेन सा अभव्यानामपि भणिता उपस्थापना अङ्गारमर्दकादीनां, छद्मस्थगुरूणां विधिकारकाणां सफला चाज्ञाराधनादिति गाथार्थः ॥ ९ ॥ उपस्थापनाविधेः फलवत्तामाह - प्रायश्चित्तेन विधिनोपस्थापनागतेन भवत्येतत् छेदोपस्थाप्यं चारित्रमिति नियमः कृतः सूत्रे, दशवैकालिकादिपाठाद्यनन्तरमुपस्थापनायाः, 'इतरथा' अन्यथा सामायिकमात्रतोऽपि अवधेः प्राप्त्या सिद्धिं गताः अनन्ताः प्राणिन इति गाथार्थः ॥ १० ॥ अनियममेव दर्शयति- 'पूर्व' उपस्थापनाकाले असदपि चैतच्चरणं विधिना गुरुगच्छादिसेवया हेतुभूतया 'जातम्' अभिव्यक्तम् अनेकेषामिदं पश्चाद् 'गोपेन्द्रादीनां' गोपेन्द्रवाचककरोटकगणिप्रभृतीनामिति गाथार्थः ॥ ११ ॥ प्रक्रान्तसमर्थनायैवाह एअं च उत्तमं खलु निवाणपसाहणं जिणा विंति । जं नाणदंसणाणवि फलमेअं चेव निद्दिट्टं ॥ ९९२ ॥ एएण उ रहिआएं निच्छयओ नेअ ताई ताईपि । सफलस्स साहगत्ता पुवायरिआ तहा चाहु ॥९९३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy