________________
Jain Education Intern
ह्यतां चैव चिन्तयेदिति गाथार्थः ॥ ८३ ॥ तथा - जात्यादिगुणविभूषितवरधवनिरपेक्षतां च भावयेत्, धवो भर्त्ता, तस्यैव चातिनिकृतिप्रधानतां चैव पापस्य, निष्कृतिः - मायेति गाथार्थः ॥ ८४ ॥ एतदेवाह - चिन्तयति कार्यमन्यत् चेतसा, अन्यत्संस्थापयते क्रियया, भाषतेऽन्यद्वाचा, 'प्रारभते' करोत्यन्यत्, मुहुः प्रारब्धत्यागेन, सर्वथा मातृग्रामी 'निकृतिसारः ' मायाप्रधान इति गाथार्थः ॥ ८५ ॥ तथा-तस्यैव च मातृग्रामस्य 'भूयः पुनः २ प्रकृत्या नीचगामित्वमनुत्तमत्वात्, सदासौख्य मोक्षप्रापकसद्ध्यानरिपुत्वं ध्यायेत्, तथेदं वक्ष्यमाणमिति गाथार्थः ॥ ८६ ॥ तस्यैवात्युग्रपरमसन्तापजनक र कानलैकहेतुत्वं भावयेत्, 'ततश्च' मातृग्रामाद्विरक्तानामिहैव प्रशमादिलाभगुणान् भावयेदिति गाथार्थः ॥ ८७ ॥ 'परलोके च' आगामिजन्मादिरूपे 'सदा' सर्वकालं 'तद्विरागवीजादेव' मातृग्रामविरागकारणादेव भावयेत् किमित्याह - शारीरमानसानेकदुःखमोक्षं, सकलदुःखक्षयरूपमित्यर्थः किमित्याह - 'सुमोक्षं ( सौख्यं ) च' अभावरूपादिव्युदासेन निरुपमसुखरूपमिति गाथार्थः ॥ ८८ ॥ भावनागुणमाह- भावयत 'इदम्' अनन्तरोदितं तत्त्वं 'गाढं संवेगशुद्धयोगस्य' अत्यन्तं संवेगेन शुद्धव्यापारस्य, किमित्याह - क्षीयते क्लिष्टकर्म, अशुभमित्यर्थः, चरणविशुद्धिस्ततःक्लिष्टकर्मक्षयानन्तरं 'नियमात्' नियमेनेति गाथार्थः ॥ ८९ ॥ इहैव व्यापकं विधिमाह -
जो जेणं बाहिज्जइ दोसेणं चेयणाइविसरणं । सो खलु तस्स विवक्खं तद्विसयं चैव भाविजा ॥८९०॥ अत्थम्मि रागभावे तस्सेव उवज्जणाइसंकेसं । भाविज्ज धम्महेउं अभावमो तह य तस्सेव ॥ ८९९ ॥
For Private & Personal Use Only
www.jainelibrary.org