________________
श्रीपञ्चव.
उपस्थापनावस्तु ३
।। १३५ ।।
Jain Education Inte
सम्यग् भावयितव्यानि सूत्रानुसारत इत्यर्थः, 'अशुभम नोहस्त्यङ्कुश समानि' अकुशलपरिणामहस्त्यङ्कुशतुल्यानि, तथा विषयविषागदभूतानि, अगदः --- परमौषधरूपः, नवरं स्थानान्येतानि वक्ष्यमाणलक्षणानि भावयितव्यानीति गाथार्थः॥७६॥ विजने देशे श्मशानादिषु स्थितेन, आदिशब्दादारामादिपरिग्रहः, गीतार्थसाधुसहितेन, नैकाकिना, भावयितव्यं, 'प्रथमम्' आदावेव अस्थिरत्वं जीवलोकस्य सर्वत्राऽऽस्थाविघातीति गाथार्थः ॥ ७७ ॥ जीवितं यौवनं ऋद्धिः - सम्पत् प्रियसंयोगादि, आदिशब्दादप्रियत्वादिपरिग्रहः, अस्थिरं सर्वमेतत् किम्भूतमित्याह - विषमखरमारुताहत कुशाग्रजलविन्दुना सदृशम्, अतीवास्थिरमिति गाथार्थः ॥ ७८ ॥ 'विषयाश्च' शब्दादयो 'दुःखरूपाः' सम्मोहनाः विषयवतां तथा चिन्ता - ssयासबहुदुःखसञ्जननाः, तदन्वेव तथानुभवनात्, तथा मायेन्द्रजालसदृशाः तुच्छाः, किम्पाकफलोपमाः 'पापा' विरसावसाना इति गाथार्थः ॥ ७९ ॥ एवं भावनान्तरं ततश्च 'मातृग्रामस्य' स्त्रीजनस्य 'निदान' निमित्तं रुधिरादि, आदिशब्दाच्छुक्रादिपरिग्रहः, रक्तोत्कटा स्त्रीत्येवमुपन्यासः, 'भावयेदि' त्येतदभ्यस्येत्, तथा कलमलकमांसशोणितपुरीषपूर्ण च कंकालं भावयेदिति गाथार्थः ॥ ८० ॥ तस्यैव च मातृग्रामस्य समरागाभावं, नहि प्रायेण समा प्रीतिर्भवतीति प्रतीतमेतत् सति तस्मिन् समरागे तथा 'विचिन्तयेत्' भावयेत्, किमित्याह – सन्ध्याभ्रकाणामिव 'सदा' सर्वकालं 'निसचिलरागतां चैव' प्रकृत्याऽस्थिररागतामिति गाथार्थः ॥ ८१ ॥ असदारम्भाणां तथा-प्राणवधादीनां सर्वेषां लोकगर्ह णीयानां जघन्यानामित्यर्थः, 'परलोकवैरिणाम्' अन्यजन्मशत्रूणां कारणतां चैव यलेन मातृग्रामस्य चिन्तयेदिति गाथार्थः ॥ ८२ ॥ तस्यैव च मातृग्रामस्य अनिलानलभुजङ्गेभ्योऽपि पार्श्वतः सम्यक् प्रकृतिदुर्ग्राह्यस्य च मनसो दुर्ग्रा -
For Private & Personal Use Only
भावनाहे
तुः भावना
च
८७५-८९
॥ १३५ ॥
www.jainelibrary.org