SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सत्तहिअरओ अ तहा आएओ अणुवत्तगो अ गंभीरो । अविसाई परलोए उवसमलडीइकलिओअ १२ 'सत्त्वहितरतश्च' सामान्येनैव जीवहिते सक्तश्च ' तथा ' न केवलमित्थंविधः किंतु 'आदेयोऽनुवर्त्तकश्च गम्भीरः ' तत्रादेयो नाम ग्राह्यवाक्यः, अनुवर्त्तकश्च - भावानुकूल्येन सम्यक्पालकः गम्भीरो - विपुलचित्तः 'अविषादीपरलोके' न परिषहाद्यभिद्रुतः काय संरक्षणादौ दैन्यमुपयाति, 'उपशमलब्ध्यादिकलितश्च' उपशमलब्ध्यु १ पकरणलब्धि २ स्थिरहस्तलब्धि ३ युक्तश्च । इति गाथार्थः ॥ १२ ॥ तह पवयणत्थवत्ता सगुरू अणुन्नायगुरुपओ चेव । एआरिसो गुरु खलु भणिओ रागाइ रहिएहिं ॥ १३ ॥ 'तथा प्रवचनार्थवक्ता'- सूत्रार्थवत्तेत्यर्थः, 'स्वगुर्वनुज्ञातगुरुपदश्चैव' असति तस्मिन् दिगाचार्यादिना स्थापितगुरुपद इत्यर्थः, 'ईदृशो गुरुः' खलुशब्दोऽवधारणार्थः, ईदृश एव कालदोपादन्यतरगुणरहितोऽपि बहुतरगुणयुक्त इति वा विशेषणार्थः, 'भणितो रागादिरहितैः' प्रतिपादितो वीतरागैः । इति गाथार्थः ॥ १३ ॥ एआरिसेण गुरुणा सम्मं परिसाइकज्जरहिएणं । पवज्जा दायव्वा तयणुग्गहनिजराहेउं ॥ १४ ॥ 'ईदृशेन गुरुणा' एवंविधेनाचार्येण 'सम्यम्' अविपरीतेन विधिना 'पर्षदादिकार्यरहितेन' सम्पूर्णा मे पर्षद् भवि - यति पानकादिवाहको वेत्याद्यैहिक कार्यनिरपेक्षेण 'प्रव्रज्या दातव्या' दीक्षा विधेया, किं तर्ह्यङ्गीकृत्य ? इत्यत्राह - 'तदनुग्रहनिर्जरा | हेतोः' इति विनयानुग्रहाथे कर्मक्षयार्थं च । इति गाथार्थः ॥ १४ ॥ ईदृशि गुरौ गुणमाह Jain Educationtional For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy