________________
श्रीपञ्चवस्तुके.
॥ ४ ॥
Jain Education In
पव्वज्जा जोग्गगुणेहिं संगओ विहिपवण्णपव्वज्जो । सेविअगुरुकुलवासो सययं अक्खलिअसीलोअ १०
प्रव्रज्यायोग्यस्य प्राणिनो गुणाः 'प्रव्रज्यायोग्यगुणा' आर्यदेशोत्पन्नादयो वक्ष्यमाणाः तथाऽन्यत्राप्युक्तम् " अथ प्रव्रज्याऽर्ह - आर्यदेशोत्पन्नः १ विशिष्टजातिकुलान्वितः २ क्षीणप्रायकर्म्ममलः ३ तत एव विमलबुद्धिः ४ दुर्लभं मानुष्यं जन्म मरणनिमित्तं सम्पदश्चपलाः विषया दुःखहेतवः संयोगो वियोगः प्रतिक्षणं मरणं दारुणो विपाक इत्यवगत संसारनैगुण्यः ५ तत एव तद्विरक्तः ६ प्रतनुकषायोऽल्पहास्यादिः ७-८ कृतज्ञो ९ विनीतः १० प्रागपि राजाऽमात्य पौरजनबहुमतो ११ अद्रोहकारी १२ कल्याणाङ्गः १३ श्राद्धः १४ स्थिरः १५ समुपसम्पन्नश्चेति १६” एभिः 'सङ्गतो' युक्तः समेतः सन् किं ? इत्याह- 'विधिप्रपन्नप्रव्रज्यो' विधिना वक्ष्यमाणलक्षणेन प्रपन्नाऽङ्गीकृता प्रव्रज्या येन स तथाविधः, तथा 'सेवितगुरुकुलवासः' समुपासितगुरुकुल इत्यर्थः, 'सततं ' सर्वकालं प्रवज्याप्रतिपत्तेरारभ्य 'अस्खलितशीलश्च' अखण्डित - शीलश्च चशब्दात् परद्रोहविरतिभावश्च इति गाथार्थः ॥ १० ॥
सम् अहीअसुत्तो ततो विमलयरबोहजोगाओ । तत्तण्णू उवसंतो पवयणवच्छलजुत्तो अ ॥ ११ ॥
'सम्यग् ' - यथोक्तयोगविधानेन 'अधीतसूत्रः, -गृहीतसूत्र: 'ततो विमलतरबोधयोगात्' इति ततः सूत्राध्ययनाद्यः शुद्ध तराव गमस्तत्सम्बन्धादित्यर्थः । किमित्याह 'तत्त्वज्ञः' वस्तुतत्त्ववेदी 'उपशान्तः' क्रोधविपाकावगमेन 'प्रवचनवात्सव्ययुक्तश्च'- प्रवचनमिह सङ्घः सूत्रं वा, तद्वत्सलभावयुक्तः । इति गाथार्थः ॥ ११ ॥
For Private & Personal Use Only
प्रत्रज्याविधानं १ द्वारम् .
॥ ४ ॥
www.jainelibrary.org