________________
तत्र धर्मोपकरणे बाह्य एव परिग्रह इति । इतरस्त्वान्तरपरिग्रहो मिथ्यात्वादिरेव, आदिशब्दादविरतिदुष्टयोगा गृह्यन्ते, परिगृह्यते तेन कारणभूतेन कर्मणा जीवः । इति गाथार्थः॥ ७ ॥ त्यागशब्दार्थ व्याचिख्यासुराह
चाओ इमेसि सम्मं मणवयकाएहिं अप्पवित्तीओ।एसा खलु पव्वजा मुक्खफला होइ निअमेणं ॥८॥ ___'त्यागः' प्रोज्झनम् 'अनयोः' आरम्भपरिग्रहयोः 'सम्यक्' प्रवचनोक्तेन विधिना 'मनोवाक्कायैः' त्रिभिरपि 'अप्रवृत्तिः' एव आरम्भे परिग्रहे च मनसा वाचा कायेनाप्रवर्त्तनमिति भावः। 'एषाखलु' इति एषैव 'प्रत्रज्या' यथोक्तस्वरूपा 'मोक्षफला भवति' इति, मोक्षः फलं यस्याः सा मोक्षफला भवति 'नियमेन' अवश्यंतया, भावमन्तरेणारम्भादौ मनो-*
प्रवृत्यसम्भवात् । इति गाथार्थः ॥ ८॥ उक्ता प्रव्रज्या भेदतः, अधुनैतत्पर्यायानाहIPI पठवजा निक्खमणं समया चाओ तहेव वेरग्गं । धम्मचरणं अहिंसा दिक्खा एगट्टियाइं तु ॥९॥ |
'प्रव्रज्या' निरूपितशब्दार्था, 'निष्क्रमणं' द्रव्यभावसङ्गात्, 'समता'-सर्वेष्विष्टानिष्टेषु 'त्यागः' बाह्याभ्यन्तरपरि-14 ग्रहस्य 'तथैव वैराग्य' विषयेषु, 'धर्मचरण' क्षान्त्याद्यासेवनम्, 'अहिंसा'-प्राणिघातवर्जनम् , 'दीक्षा'-सर्वसत्त्वाभयप्रदानेन भावसत्रं, 'एकार्थिकानि तु' एतानि प्रव्रज्याया एकार्थिकानि, तुर्विशेषणार्थः, शब्दनयाभिप्रायेण । समभिरूढनयाभिप्रायेण तु नानार्थान्येव, भिन्नप्रवृत्तिनिमित्तत्वात् सर्वशब्दानाम् । इति गाथार्थः॥९॥ सेति व्याख्यातम्, अधुना केनेत्येतद् व्याख्यायते, तत्र योग्येन गुरुणा, स चेत्थंभूत इत्याह
Jain Education Intern
For Private & Personal use only
www.jainelibrary.org