________________
श्रीपञ्चवस्तु के.
॥ ३ ॥
Jain Education Inte
इत्थं मोक्षकारणत्वात् शुद्धचरणयोगा एव मोक्ष इति, ततश्च मोक्षं प्रति प्रब्रजनं प्रव्रज्या । इति गाथार्थः ॥ ५ ॥ एष तावत् प्रव्रज्यातत्त्वार्थोऽधुना भेदत एनां व्याचिख्यासुराह
प्रव्रज्याविधानं
नामाइ चउब्भेआ एसा दव्वम्मि चरगमाईणं । भावेण जिणमयम्मि उ आरंभपरिग्गहच्चाओ ॥ ६ ॥ ४ १ द्वारम् -
'नामादिचतुर्भेदा एषा' इयं च प्रव्रज्या नामादिचतुर्भेदा भवति तद्यथा-नामप्रव्रज्या स्थापना - द्रव्य-भाव प्रव्रज्या चेति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य नोआगमत एव ज्ञशरीर भव्यशरीरव्यतिरिक्तां द्रव्यप्रत्रज्यामाह - 'द्रव्ये चरका - दीनां द्रव्य इति द्वारपरामर्शः, द्रव्यप्रत्रज्या चरकादीनां चरकपरिव्राजकभिक्षुभौतादीनां द्रव्यशब्दश्चेहाप्रधानवाचको न तु भूतभविष्यद्भावयोग्यतावाचक इति । नोआगमत एव भावप्रव्रज्यामाह - 'भावेन' इति भावतः परमार्थतः, 'जिनमत एव' रागादिजेतृत्वाज्जिनः, तन्मत एव वीतरागशासन एवेत्यर्थः । 'आरंभपरिग्रहत्यागः' वक्ष्यमाणारम्भपरिग्रहवर्जनं जिनशासन एवं अन्यशासनेष्वारम्भपरिग्रहस्वरूपा नवगमात् सम्यक्त्यागासम्भवः । इति गाथार्थः ॥ ६ ॥ आरम्भपरिग्रहस्वरूपप्रतिपादनायाह
पुढवाइस आरंभो परिग्गहो धम्मसाहणं मुत्तुं । मुच्छा य तत्थ बज्झो इयरो मिच्छत्तमाईओ ॥७॥
'पृथिव्यादिषु' कायेषु विषयभूतेषु 'आरंभ' इत्यारम्भणमारम्भः सङ्घट्टनादिरूपः परिग्रहणं 'परिग्रहः' असौ द्विविधः बाह्योऽभ्यन्तरश्च तत्र धर्म्मसाधनं मुखवस्त्रिकादि मुक्त्वा बाह्य इति सम्बन्धः, अन्यपरिग्रहणमिति गम्यते, मूर्च्छा च
For Private & Personal Use Only
॥३॥
www.jainelibrary.org