SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ पव्वज पढमदारं सा केणं केसि कमिव कहं वा। दायव्वत्ति निरुच्चइ समासओआणुपुत्वीए॥४॥दार॥ 'प्रवज्या' वक्ष्यमाणशब्दार्था 'प्रथमद्वारम्' इह प्रकरणे प्रथमोऽधिकारः, सा नामादिभेदभिन्ना निरुच्यते- तथा । 'केन' इति किंविशिष्टैनगुरुणा दातव्यतन्निरुच्यते, तथा 'केभ्य' इति किंविशिष्टेभ्यः शिष्येभ्यो दातव्येति, तथा 'कस्मिन्' इति कस्मिन् वा क्षेत्रादौ, 'कथंवा' इति केन वा प्रश्नादिप्रकारेण 'दातव्या' इति न्यसनीया, 'निरुच्यते' निराधिक्येन प्रकटार्थतामङ्गीकृत्योच्यते निरुच्यते, 'समासतः' इति सङ्केपेण, न पूर्वाचार्यैरिव विस्तरेणेति 'आनुपूर्व्या' इति आनुपूर्व्या परिपाट्या क्रमेणोच्यते । इति गाथार्थः ॥ ४॥ तत्र 'तत्वभेदपर्यायाख्या' इति न्यायमङ्गीकृत्य तत्वतः प्रव्रज्यां प्रतिपादयन्नाह पव्वयणं पव्वज्जा पावाओ सुद्धचरणजोगेसु । इअ मुक्खं पइवयणं कारणकज्जोवयाराओ॥५॥ 'प्रत्रजनं प्रव्रज्या' प्र-इति प्रकर्षेण ब्रजनं प्रव्रजनं, कुतः क्वेत्यत आह-'पापाच्छुद्धचरणयोगेषु' इह पापशब्देन पापहेतवो गृहस्थानुष्ठान विशेषा उच्यन्ते, कारणे कार्योपचारात्-यथा “दधित्रपुषी प्रत्यक्षो ज्वर" इति, शुद्धचरणयोगास्तु संयतव्यापारा मुखवस्त्रिकादिप्रत्युपेक्षणादय उच्यन्ते 'इय' एवं 'मोक्ष प्रतिव्रजन' प्रव्रज्या। कथमित्याह 'कारणे कार्योपचारात्' कारणे शुद्धचरणयोगलक्षणे मोक्षाख्यकार्योपचारात्-“यथा आयुघृतम्" इत्यायुषः कारणत्वाद् घृतमेवायुः, RAHAR +5+%ASAHRIES AS Jain Education in For Private & Personal use only Law.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy