________________
श्रीपञ्चवस्तुके.
प्रव्रज्या विधानं (१द्वारम्.
॥२॥
विशिष्टैव संलेखनोच्यत इति, 'मो' इति पूरणार्थो निपातः इति, 'पञ्च' इति एवमनेनैव क्रमेण पञ्चवस्तूनि; तथाहि
प्रव्रज्याभिधाने सति सामायिकसंयतो भवति, संयतस्य प्रतिदिनक्रिया, क्रियावतश्च व्रतेषु स्थापना, व्रतस्थस्य चानुयो& गगणानुज्ञे, सम्भवतश्चरमकाले च संलेखना । इति गाथार्थः ॥ २॥ साम्प्रतममीषामेव वस्तुत्वप्रतिपादनार्थमाह
एए चेव य वत्थू वसंति एएसु नाणमाईया । जं परमगुणा सेसाणि हेउफलभावओ हुँति ॥३॥
'एतान्येव' प्रव्रज्याविधानादीनि शिष्याचार्यादिजीवद्रव्याश्रयत्वात् तत्त्वतस्तद्रूपत्वाद्-वस्तूनि, एतेष्वेव भावशब्दार्थोपपत्तेः, तथा चाह-वसन्ति एतेषु' प्रव्रज्याविधानादिषु 'ज्ञानादयः' ज्ञानदर्शनचारित्रलक्षणाः, 'यत्' यस्मात् 'परमगुणाः' प्रधानगुणाः; एवमप्येतान्येवेत्यवधारणमयुक्तम्, अविरतसम्यग्दृष्ट्यादिविधानादीनांविशिष्टस्वर्गगमनसुकुलप्रत्यायातिपुनर्बोधिलाभादीनामपि च वस्तुत्वात् , इत्येतदाशङ्ख्याह-शेषाणि अविरतसम्यग्दृष्ट्यादिविधानादीनि 'हेतुफलभावतो भवन्ति' अविरतसम्यग्दृष्ट्यादीनि हेतुभावतः कारणभावेन, विशिष्टस्वर्गगमनादीनि तु फलभावतः कार्यभावेन वस्तूनि भवन्ति; तथाहि-अविरतसम्यग्दृष्ट्यादिविधानादीनाम् कार्याणि प्रव्रज्याविधानादीनि, अतो वस्तुकारणत्वात् तेषामपि वस्तुत्वमेव । विशिष्टस्वर्गगमनादीनि तु प्रत्रज्याविधानादिकार्याणि, अतो वस्तुकार्यत्वादमीषामपि वस्तुता, परिस्थूरव्यवहारनयदर्शनतः । तत्त्वतस्त्वधिकृतानामेव वस्तुत्वम् । इति गाथार्थः ॥ ३ ॥ आद्यद्वारावयवार्थाभिधित्सर्यवाह
Jain Education inte
For Private & Personal Use Only
Vivow.jainelibrary.org