________________
Jain Education Inter
भवतीत्येतदाह च मनोवाक्काययोगैरसम्यगपि नमनं भवतीति सम्यग्ग्रहणं; आह-एवमपि सम्यगित्येतदेवास्तु, अलं मनोवाक्काययोगग्रहणेन !, सम्यग्नमनस्य तदव्यभिचारित्वात्, नैतदेवम्, एकपदव्यभिचारेऽपि " अबूद्रव्यं पृथिवीद्रव्यं" इत्यादौ विशेषणविशेष्यभावदर्शनादिति । न केवलं वर्द्धमानं नत्वा, किन्तु सङ्घ च सम्यग्दर्शनादिसमन्वितप्राणिगणं च नत्वा, किम् ? इत्याह-पञ्चवस्तुकं यथाक्रमं कीर्त्तयिष्यामि, प्रव्रज्याविधानादीनि पञ्चवस्तूनि यस्मिन् प्रकरणे तत्पञ्चवस्तु, पञ्चवस्त्वेव पञ्चवस्तुकं ग्रन्थं यथाक्रममिति यो यः क्रमो यथाक्रमः यथापरिपाटि, कीर्त्तयिष्यामि - संशब्दयिष्यामि । इति गाथार्थः ॥ १ ॥ अधिकृतानि पञ्चवस्तून्युपदर्शयन्नाह -
पव्वज्जाए विहाणं पइदिणकिरिया वसु ठवणा य । अणुओगगणाणुण्णा संलेहण मो इइ पंच ॥२॥
'प्रव्रज्यायाः ' वक्ष्यमाणलक्षणायाः 'विधानम्' इतिविधिः तथा 'प्रतिदिनक्रिया' इति, प्रतिदिनं प्रत्यहं क्रिया- चेष्टा प्रतिदिन क्रिया, प्रत्रजितानामेव चक्रवालसामाचारीति भावः । तथा 'व्रतेषु स्थापना च' इति, “हिंसाऽनृतस्तेयाऽब्रह्मपरि ग्रहेभ्यो विरतयः व्रतानि” तेषु स्थापना - सामायिकसंयतस्योपस्थापनेत्यर्थः । ननु व्रतानां स्थापनेति युक्तम्, तत्र तेषामारोप्यमाणत्वात् उच्यते, सामान्येन व्रतानामनादित्वात् तेषु व्रतेषु तस्योपस्थाप्यमानत्वात् इत्थमप्यदोष एव । तथा 'अनुयोगगणानुज्ञा' इति अनुयोजनमनुयोगः, सूत्रस्य निजेनाभिधेयेन सम्बन्धनं व्याख्यानमित्यर्थः, गणस्तु गच्छोऽभि - धीयते, अनुयोगश्च गणश्चानुयोगगणौ तयोरनुज्ञा प्रवचनोक्तेन विधिना स्वातन्त्र्यानुज्ञानमिति । 'संलेखना' 'चेति संलिख्यते शरीर कषायादि यया तपः क्रियया सा संलेखना, यद्यपि सर्वैव तपः क्रिये (त्थं ) यं तथाऽप्यत्र चरमकालभाविनी
For Private & Personal Use Only.
www.jainelibrary.org