SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ मेव हन्दि मोक्षस्य हेतुरिति योगः ?, नैवेत्यभिप्रायः, किंभूतानामित्याह-'अतिचाराश्रयभूतानां प्रभूतातिचारवता|मिति गाथार्थः ॥ ६७॥ मार्गानुसारिणं विकल्पमाह-एवं च घटते एतद्-अनन्तरोदितं, प्रपद्य यश्चिकित्सां कुष्ठादेरतिचारं-तद्विरोधिनं, किमित्याह-सूक्ष्ममपि करोति स खलु तस्यातिचारः विपाकेऽतिरौद्रो भवति, दृष्टमेतद्, एवं दान्तिकेऽपि भविष्यतीति गाथार्थः॥ ६८॥ अतिचारक्षपणहेतुमाह-प्रतिपक्षाध्यवसानं क्लिष्टाच्छुद्धं तुल्यगुणमधिकगुणं वा प्रायेण 'तस्य' अतिचारस्य क्षपणहेतुरपि, यदृच्छापि क्वचिदिति प्रायोग्रहणं, नालोचनामात्रं तथाविधभावशून्यं, कुत इत्याह–'तेषामपि' ब्राहयादीनां प्राणिनामोघेन-सामान्येन तद्भावाद' आलोचनादिमात्रभावादिति गाथार्थः |॥ ६९॥ एवं प्रमत्तानामपि साधूनां 'प्रत्यतिचारम्' अतिचारं २ प्रति विपक्षहेतूनां-यथोक्ताध्यवसानानां आसेवने सति न दोषः, अतिचारक्षयात् , इत्येवं धर्माचरणं यथाभिहितं शुद्धत्वात् मोक्षस्य हेतुरिति गाथार्थः ॥ ७० ॥ अत्रैवैदंपर्य-31 माह-सम्यकृतप्रतीकारमगदमन्त्रादिना बह्वपि विषं न मारयति यथा भक्षितं सत्, स्तोकमपि च 'विपरीतम्' अकृतप्रतीकारं मारयति एषोपमा अत्र-अतिचारविचार इति गाथार्थः॥ ७१॥ विपक्षमाह-ये प्रतीकारविरहिताः अतिचारेषु प्रमादिनो द्रव्यसाधवः तेषां पुनस्तद्-धर्माचरणं 'यथोदितं' चिन्त्यं न भवतीत्यर्थः, एतदेव स्पष्टयति-दुगृहीतशरोदाहरणात् , शरो यथा दुर्गृहीतो हस्तमेवावकृन्तति, 'श्रामण्यं दुष्परामृष्टं, नरकानुपकर्षती' त्यस्मादनिष्टफलमप्येतद्-धम्म । चरणं द्रव्यरूपं भणितं मनीषिभिरिति गाथार्थः॥ ७२ ॥ एतदेव सामान्येन द्रढयन्नाह क्षुद्रातिचाराणामेवौघतो धम्मसम्बन्धिना मनुष्यादिष्वशुभफलं ज्ञेयं, स्त्रीत्वदारिद्यादि, आदिशब्दात् तथाविधतिर्यक्परिग्रहः, 'इतरेषां पुनः' महाति www.jainelibrary.org For Private & Personal Use Only Jain Education in
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy