________________
Jain Education I
सइ तम्मि विवेगविहु साहेइ ण निअमओ निअं कजं । किं पुण ते विणो अदीहदरिसी अतस्सेवी ? ॥ ८४९ ॥ तम्हा उ अणसणाइवि पीडाजणगंपि ईसि देहस्स । बंभं व सेविअवं तवोवहाणं सया जइणा ॥ ८५० ॥
न 'अनशनादिविरहाद्' अनशनाद्यभावेन 'प्रायेण' बाहुल्येन त्यजति साम्प्रतं विशेषेण दुष्षमायां 'देहः' कायः, किं न त्यजतीत्याह - चितमांसशोणितत्वं, धातूद्रेकमित्यर्थः, यस्मादेवं 'तस्मादेतदपि' अनशनादि कर्त्तव्यं व्रतार्थिनेति गाथार्थः ॥ ४७ ॥ चितमांसशोणितदोषमाह - चितमांसशोणितस्य तु प्राणिनः किमित्याह -अशुभप्रवृत्तेः कामविषयायाः कारणं 'परमं' प्रधानं सञ्जायते 'मोहोदयः' क्लिष्टश्चित्तपरिणामः कुत इत्याह- सहकारिविशेषयोगेन, चितमांसशो णितत्वनिमित्तविशेषादिति गायार्थः ॥ ४८ ॥ विवेकादसौ न भविष्यतीति केचिदित्यत्राह - सति 'तस्मिन् ' मोहोदये विवेक्यपि सत्त्वः 'साधयति' निर्वर्त्तयति न 'नियमतः' अवश्यन्तया निजं कार्यम्-अशुभप्रवृत्तिनिरोधरूपं, किं पुनः | विवेकेन विहीनः साधयिष्यति ?, किम्भूतः ? - ' अदीर्घदर्शीं' अनालोचकः, क इत्याह- 'अतत्सेवी' अनागतमेवानशनाद्यसेवी जड इति गाथार्थः ॥ ४९ ॥ यस्मादेवं - तस्मादनशनाद्यपि सूत्रोकं पीडाजनकमपीपद्देहस्य, न चेतसः, किमिवेत्याह- 'ब्रह्मवत्' ब्रह्मचर्यवत् सेवितव्यं तपउपधानं सदा 'यतिना' प्रत्रजितेनेति गाथार्थः ॥ ५० ॥ पराभिप्रायमाहसिअ णो सुहासयाओ सुओवउत्तस्स मुणिअतत्तस्स । बंभंमि होइ पीडा संवेगाओ अ भिक्खुस्स ॥ ८५१ ॥
'तेन'
For Private & Personal Use Only
www.jainelibrary.org