________________
श्रीपञ्चव.
उपस्थाप
नावस्तु ३ ॥ १३० ॥
Jain Education Inter
करादिभिः दुःखक्षय कारणात् 'सुविहितैः' साधुभिर्भवति नोद्यन्तव्यम् ?, उद्यन्तव्यमेव, 'सप्रत्यपाये' चापलादिधर्मके मानुष्य इति गाथार्थः ॥ ४२ ॥ अस्यैव प्रकृतोपयोगितामाह-व्रतरक्षणं 'परं' प्रधानं खलु, किं तदित्याह - तपउपधानम्, इह लोके काले वा जिनवरा ब्रुवते, 'अतश्च' तपउपधानाद् गुणवृद्धिः 'सम्यक्' प्रशस्ता 'नियमेन' अवश्यम्तया, मोक्षफला गुणवृद्धिरिति गाधार्थः ॥ ४३ ॥ तपउपधानस्वरूपमाह - 'शुभयोगवृद्धिजनकं' शुभानुबन्धित्वेन शुभध्यानसमन्वितमासेवना कालेऽनशनादि प्रवचनोक्तं यत् 'अनाशंसं' निरभिसन्धि तत् खलु - अनशनादि तपउपधानं मन्तव्यं, न तु स्वाग्रहप्रकाममिति गाथार्थः ॥ ४४ ॥ ओघत बाह्याभ्यन्तररूपं तर आह- 'अनशनम्' इत्वरादिरूपम् 'ऊनोदरता' अल्पाहारादिलक्षणा 'वृत्तिसङ्क्षेपः' अटनगृहमानादिः 'रसपरित्यागः' विकृतिपरिहारः कायक्लेशः ऊर्द्धस्थानादिना 'संलीनता च' इन्द्रियनो इन्द्रियगुप्तता, एतद्वाह्यं तपो भवति, वाह्यमिव बाह्यं सर्वलोकविदितत्वादेवेति गाथार्थः ॥ ४५ ॥ 'प्रायश्चित्तम्' आलोचनादि 'विनयो' ज्ञानादिगोचरः 'वैयावृत्त्यम्' आचार्यादिविषयं तथैव 'स्वाध्यायो' वाचनादिलक्षणः, 'ध्यानं' धर्मध्यानादि व्युत्सर्गोऽपि च कारणगृहीतस्य मनागशुद्धस्यान्यलाभे सत्याहारादेः, एतदभ्यतरं तु ज्ञातव्यं तपः, अभ्यन्तरमिवाभ्यन्तरं सर्वलोका विदितत्वादिति गाथार्थः ॥ ४६ ॥ केचिदनशनादि नेच्छन्त्येव तान् प्रति तद्गुणमाहनो अणसणाइविरहा पाएण चएइ संपयं देहो । चिअमंससोणिअत्तं तम्हा एअपि कायां ॥ ८४७ ॥ चिअमंससोणिअस्स उ असुहपवित्तीऍ कारणं परमं । संजायइ मोहुदओ सहकारिविसेसजोएणं ॥ ८४८ ॥
For Private & Personal Use Only
तप उपधा
नम्
८४०-९
॥ १३० ॥
www.jainelibrary.org