________________
Jain Education
पीठकं काष्ठच्छगणात्मकं लोकसिद्धमानं, त्रेहवत्यां वसतौ वर्षाकाले वा प्रियत इत्यौपग्रहिकं, संयतीनां त्वागताभ्यागतसाधुनिमित्तमिति, निषद्या पादपुञ्छणं प्रसिद्धप्रमाणं, जिनकल्पिकादीनां न भवति, निषीदनाभावात्, दण्डकोऽप्येवमेव, नवरं निवारणाभावात् एषः, प्रमार्जनी वसतेर्दण्डक पुच्छनाभिधाना एव, 'घट्टकः' पात्रमुखादिकरणाय लोहमयः, 'सूची' शीवनादिनिमित्तं वेण्वादिमया, नखरदनी प्रतीता लोहमय्येव शोधनकद्वयं कर्णशोधन कदन्तशोधनकाभिधानं | लोहमयादि जघन्यस्तु अयं जघन्यः औपग्रहिकः खलूपधिरिति गाथार्थः ॥ ३४ ॥ एनमेव मध्यममभिधातुमाह
वर्षात्राणविषयं पञ्चकं, तद्यथा - कम्बलमय १ सूत्रमय २ तालपत्रसूची ३ पलाशपत्रकुट ४ शीर्षकं छत्रकं ५ चेति, लोकसिद्धप्रमाणानीति, तथा चिलिमिलीपञ्चकं, तद्यथा - सूत्रमयी ( ऊर्णामयी वाकमयी ) दण्डमयी कण्टकमयीति, प्रमाणमस्याः गच्छापेक्षया, सागारिकप्रच्छादनाय तदावरणात्मिकैवेयमिति, संस्तारद्वयं च शुषिराशुषिरभेदभिन्नं, शुषिरः तृणादिकृतः, तदन्यकृतस्त्वशुषिर इति, तथा दण्डादिपञ्चकं पुनः, तद्यथा-दण्डको विदण्डकः यष्टिर्वियष्टिः नालिका चेति, | मात्रकत्रितयं, तद्यथा- कायिकमात्रकं संज्ञामात्रकं खेलमात्रकमिति, तथा पादलेखनिका वटादिकाष्ठमयी कर्द्दमापनयनीति गाथार्थः ॥ ३५ ॥ चर्मत्रिकं वर्धतलिका कृत्तिरूपं, तथा 'पट्टद्वयं' संस्तारपट्टोत्तरपट्टलक्षणं ज्ञातव्यः मध्यम उपधिरेष औपग्रहिकः । आर्याणां वारकः पुनः सागारिकोदकनिमित्तं मध्यमोपधावुक्तलक्षणो भवत्यतिरिक्तः, नित्यं जनमध्य एव तासां वासादिति गाथार्थः ॥ ३६ ॥ एनमेवोत्कृष्टमभिधातुमाह- अज्ञाः - चन्दनकादयः संस्तारकश्च किंविशिष्ट इ
For Private & Personal Use Only
www.jainelibrary.org