________________
श्रीपञ्चव.
उपस्थापनावस्तु ३
॥ १२६ ॥
Jain Education Inter
'आदाने' ग्रहणे कस्यचित् 'निक्षेपे' मोक्षे स्थाननिषीदनत्यग्वर्त्तनसङ्कोचनेषु 'पूर्वम्' आदी प्रमार्जनार्थं भूम्यादेः लिङ्गार्थ चैव साधो रजोहरणं भवतीति गाथार्थः ॥ १५ ॥ मुहपोत्तिकाप्रमाणमाह
चउरंगुलं विहत्थी एअं मुहणंतगस्स उ पमाणं । वीओवि अ आएसो मुहप्पमाणाउ निष्पन्नं ॥ ८१६ ॥
चतुरङ्गुलं वितस्तिः एतत् सम्पृक्तं सत् मुखानन्तकस्य तु 'प्रमाण' प्रमाणरूपं, द्वितीयोऽपि च आदेशः अत्रैव मुखप्रमाणान्निष्पन्नं यावता मुखं प्रच्छाद्यत इति गाथार्थः ॥ १६ ॥ एतत्प्रयोजनमाह -
संपातिमरयरेणूपमजणट्ठा वयंति मुहपोतीं । णासं मुहं च बंधइ तीए वसही पमजंतो ॥ ८१७ ॥
सम्पातिमरजोरेणुप्रमार्जनार्थं इति एतन्निमित्तं वदन्ति मुखपोत्तिं तीर्थकरादयः, तथा नासां मुखं च बध्नाति तया वसत्यादि प्रमार्जयन, आदिशब्दादुच्चारभूमौ नासिकाशदोषपरिहारायेति गाथार्थः ॥ १७ ॥ मात्रक प्रमाणमाहजो मागहओ पत्त्थो सविसेसयरं तु मत्तगपमाणं । दोसुवि दवग्गहणं वासावासे अहीगारो ॥ ८१८ ॥
यो मागधः प्रस्थः ' दो असतीओ पसती' इत्यादिनिष्पन्नः, एतत्सविशेषतरं मात्रकप्रमाणं भवति, 'द्वयोरपि' ऋतुबद्धवर्षाकालयोर्मात्रिकग्रहणं वैयावृत्त्यकरसंघाटकं प्रति, तथा चाह - 'द्रव्यग्रहणं' गुर्वादिप्रायोग्यग्रहणमिति, एतच्च ध्रुवलाभेसंसक्तदेशे चैवम्, अन्यदा तु सर्वसङ्घाटकानामेव तद्ग्रहणमिति, तेषामप्यध्रुवलाभादावेव नान्यदा, यत आह- वर्षा - वासेऽधिकारो मात्रकस्य, संसक्तादिसम्भवादिति गाथार्थः ॥ १८ ॥ आदेशान्तरमाह
For Private & Personal Use Only
रजोहरण. १ मात्रकयोमनम्
॥ १२६ ॥
www.jainelibrary.org