SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १२० ॥ Jain Education Interna संयोजना - मीलना १ प्रमाणं पिण्डस्य २ अङ्गारो भोजन एव रागः ३ धूमो द्वेषः ४ कारणं चैव वेदनादि, ५ 'उपकरणभक्त - पान' इत्युपकरणभक्तपानविषया सवाह्याभ्यन्तरा 'प्रथमा' संयोजना, तत्रोपकरणवाह्य संयोजना श्लक्ष्णचोलपट्टादिलाभे बहिरेव तदुचितकम्बल्याद्यन्वेषणम्, अभ्यन्तरसंयोजना तु वसतौ तत्परिभोगे, एवं भक्तपानेऽपि योज्यमिति गाथार्थः ॥६७॥ द्वात्रिंशत्कवला मानमाहारस्य, एतच्च पुंसः, स्त्रियाः पुनरष्टाविंशतिः, रागद्वेषाभ्यां धूमाङ्गारमिति, रागेण परिभोगेऽङ्गारश्चारित्रदाहात्, द्वेषेण तु धूमः, चारित्रेन्धनप्रदीपनात्, वैयावृत्त्यादीनि कारणान्या हारपरिभोगे, आदिशब्दाद्वेदनादिरिग्रहः, 'अविधावतिचार' इति अत्राविध क्रियमाणे व्रतातिचारो भवतीति गाथार्थः ॥ ६८ ॥ ॥ व्याख्यातं भक्तद्वारम् अधुनोपकरणद्वारमाह उवगरणंपिधरिज्जा जेण न रागस्स होइ उप्पत्ती । लोगम्मि अ परिवाओ विहिणा य पमाणजुत्तं तु ॥७६९ ॥ ‘उपकरणमपि' वस्त्रपात्रादि धारयेत्, किंविशिष्टमित्याह-येन न रागस्य भवत्युत्पत्तिः, तदुत्कर्षादात्मन एव, लोके च परिवादः - खिंसा येन न भवति, 'विधिना च' यतनया प्रत्युपेक्षणादिना धारयेत् 'प्रमाणयुक्तं च' न न्यूनाधिकमिति गाथार्थः ॥ ६९ ॥ दुविहं उवहिपमाणं गणणपमाणं पमाणमाणं च । जिणमाइआण गणणापमाणमेअं सुए भणिअं ॥७७०॥ द्विविधमुपधिप्रमाणं, कथमित्याह - गणनाप्रमाणं मानप्रमाणं च सङ्ख्या स्वरूपमानमित्यर्थः, 'जिनादीनां' जिनकल्पिकप्रभृतीनां गणनाप्रमाणम् 'एतद्'वक्ष्यमाणलक्षणं श्रुते भणितमिति गाथार्थः ॥ ७० ॥ For Private & Personal Use Only मण्डल - दोषाः ॥ १२० ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy