________________
S
OCROSS BECAUSESSORSHIP
॥४७॥ प्रामित्यं नाम यत् साधूनामर्थे उच्छिद्यान्यतः 'दियावेइ'त्ति ददाति । परावर्तितुं च गौरवादिभिः कोद्रवौदनादिना शाल्योदनादि यद् ददाति तत्परावर्तितं भणितमिति गाथार्थः॥ ४८ ॥ स्वग्रामपरग्रामात् यदुग्राहिमकादि आनेतुं, ददातीति वर्तते, अभ्याहृतं तु तदेवंभूतं भवति । तथा छगणमृत्तिकादिनोपलिप्तमुद्भिद्य यद्ददाति तदुद्भिन्नमभिधीयत इति गाथार्थः॥४९॥ मालापहृतं तु भणितं तीर्थकरगणधरैः यन्मण्डकादि मालादिभ्यो ददाति गृहीत्वा, आदिशब्दात् अधोमालादिपरिग्रहः। आच्छेद्यं चाच्छिद्य यत्स्वामी भृत्यादीनां सम्बन्धि ददाति तद् भणितमिति, आदिश-| ब्दात्कर्मकरादिपरिग्रह इति गाथार्थः ॥५०॥ अनिसृष्टं 'सामान्यम्' अनेकसाधारणं गोष्ठिकभक्तादि, आदिशब्दाच्छ्रेणिभकादि, ददत एकस्याननुज्ञातस्य । 'स्वार्थम्' आत्मनिमित्तं मूलाद्रहणे कृते सति माधुनिमित्तं मुद्गादिसेतिकादेः प्रक्षेपोऽध्यवपूरको भवतीति गाथार्थः ॥५१॥ अत्र विशोध्यविशोधिकोटिभेदमाह
कम्मुद्देसिअचरिमतिग पूइअं मीस चरिमपाहुडिआ।
अज्झोअर अविसोहिअ विसोहिकोडी भवे सेसा ॥७५२॥ __ 'कर्मे' त्याधाकर्म तथा औदेशिकचरमत्रिक' मिति कम्मोहेशिकस्य मोदकचरीपुनःकरणादौ यच्चरमं त्रिकं पाखण्डिश्रमणनिर्ग्रन्थविषयं समुद्देशादि तथा पूर्ति भक्तपानलक्षणां तथा मिश्रजातं उक्तलक्षणं तथा 'चरमप्राभृतिका' बादर.
SACASSACRORSCARSAMACAACASSA
Jain Education inte
For Private & Personal Use Only
| www.jainelibrary.org