________________
मध्यवपूरक
पा॥४३॥ जयत, तथा
श्रीपञ्चव.
___ आधाकर्म औद्देशिकं पूतिकर्म मिश्रजातं च तथा स्थापना प्राभृतिका च प्रादुष्करणं क्रीतं पामित्यम् ॥४१॥ परा- उद्गमदोषाः उपस्थाप-15 वर्तितं अभ्याहृतं उद्भिन्नं मालापहृतं च तथा आच्छेद्यं अनिसृष्टमध्यवपूरकश्च षोडश इति गाथाद्यपदोपन्यासार्थः॥४२॥8॥ नावस्तु ३
सचित्तं सत् फलादि यदचित्तं साधूनाम क्रियते, तथा यच्च अचित्तमेव तन्दुलादि पच्यते साधूनामर्थे, आधाकर्म तद्, ॥११७॥
ब्रुवेत तीर्थकरादय इति गाथार्थः॥४३॥ उद्दिश्य च 'साध्वादीन्' निर्ग्रन्थशाक्यादीन् 'ओमात्यये दुर्भिक्षापगमे भिक्षावितरणं प्राभृतकादीनां यत् (तत्) उद्दिष्टौद्देशिकं, यच्चोद्धरितमोदनादि मिश्रयित्वा व्यञ्जनादिना वितरणं तत्कृतौदेशिकं, यच्च तप्त्वा गुडादिना मोदकचूरीबन्धवितरणं तत्कम्मौद्देशिकमिति, एवं चेतसि निधाय सामान्येनोपसंहरति-औद्देशिक तत् , तुशब्दः स्वगतभेदविशेषणार्थ इति गाथार्थः ॥४४॥ 'कर्मावयवसमेतं' आधाकावयवसमन्वितं सम्भाव्यते । यत्तत् 'पूति' उपकरणभक्तपानपूतिभेदभिन्नं । 'प्रथममेव' आरम्भादारभ्य गृहिसंयतयोः 'मिश्रं' साधारणं उपस्कृतादि| |'मिश्रं तु मिश्रजातमिति गाथार्थः॥ ४५ ॥ साध्ववभाषितक्षीरादिस्थापनं स्थापना साध्वर्थे, साधुना याचिते सति तन्निमित्तं क्षीरादेः स्थापनं स्थापनोच्यत इति । 'सूक्ष्मतरेति सूक्ष्मा बादरा च, उत्सर्पणमवसर्पणं चाङ्गीकृत्य प्राभृतिका भवति, सूक्ष्मा-अर्द्धकर्तिते दारकेन भोजनं याचिता सती साधावागते दास्यामीत्युत्सर्पणं करोति, साध्वर्थाय चोत्थिता पुत्रक! तवापि ददामीत्यवसर्पणं, बादरा तु समवसरणादौ विवाहादेरेव च (उत्सर्पणादि ) कुर्वतः, कुगतेः प्राभृतकल्पा प्राभृतिका इति गाथार्थः ॥ ४६ ॥ नीचद्वारान्धकारे गृहे भिक्षाग्रहणाय गवाक्षकरणादि, आदिशब्दात्प्रदीपमण्यादि-12 परिग्रहः, 'प्रादुष्करण मिति प्रकाशकरणं । 'द्रव्यादिभिः' द्रव्यभावैः क्रयणं साध्वर्थे-साधुनिमित्तं क्रीतमेतदिति गाथार्थः
SROGRA AGAR
॥११७॥
Jain Education Intern
For Private & Personal Use Only
www.jainelibrary.org