SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ ११६ ॥ Jain Education Intern | संसग्गीए दोसा निअमादेवेह होइ अक्किरिया । लोए गरिहा पावे अणुमइमो तह य आणाई ॥ ७३७ ॥ संसर्गात् संसर्वा, पार्श्वस्थादिभिः सहेति गम्यते, दोषा इमे नियमादेवेह, या च यावती च भवत्यक्रिया तदुपरोधेन, तथा लोके गर्दा भवति - सर्व एवैते एवम्भूता इति, तथा पापेऽनुमतिर्भवति पार्श्व स्थादिसम्बन्धिनी (नि), तत्सङ्गमात्रनिमित्तत्वादनुमतेः, तथा आज्ञादयश्च दोषा भवन्तीति गाथार्थः ॥ ३७ ॥ साम्प्रतं भक्तविधिमाह भत्तंपि भोत्तवं सम्मं बायालदो परिसुद्धं । उग्गममाई दोसा ते अ इमे हुंति नायवा ॥ ७३८ ॥ 'भक्तमपि ' ओदनादि भोक्तव्यं 'सम्यग् ' आशंसारहितेन 'द्विचत्वारिंशद्दोषपरिशुद्धं' कल्पनीयम्, उद्गमादयो दोषा अत्र गृह्यन्ते, ते चामी -वक्ष्यमाणलक्षणा भवन्ति ज्ञातव्या इति गाथार्थः ॥ ३८ ॥ सोलस उग्गमदोसा सोलस उप्पायणाऍ दोसा उ । दस एसणाऍ दोसा बायालीसं इइ भवंती ॥७३९ ॥ षोडश उद्गमे दोषाः- आधाकर्म्मप्रभृतयः, षोडश उत्पादनायां दोषाः धात्र्यादयः, दश पिण्डैषणायां दोषाः शङ्कितादयः, द्विचत्वारिंशदेवं भवन्ति समुदिता इति गाथार्थः ॥ ३९ ॥ एतदेव भावयतितत्थुग्गमो पसूई पभवो एमाइँ हुंति एगट्टा । सो पिंडस्साहिगओ तस्स य भेया इमे होंति ॥ ७४० ॥ तत्रोद्गमः प्रसृतिः प्रभव एवमादयो भवन्त्येकार्थाः शब्दाः, सः - उद्गमः पिण्डस्याधिकृतः तस्य च भेदा एते भवन्ति वक्ष्यमाणा इति गाथार्थः ॥ ४० ॥ For Private & Personal Use Only भक्के ४२ दोषाः ॥ ११६ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy