SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ भावुगअभावुगाणि अलोए दुविहाणि होति दवाणि। वेरुलिओ तत्थ मणी अभावुगो अन्नदवेहिं ॥७३॥ जीवो अणाइनिहणो तब्भावणभाविओ असंसारे। खिप्पं सो भाविजइ मेलणदोसाणुभावेण॥७३५॥ अंबस्स य निंबस्स य दोहंपि समागयाइं मूलाई । संसग्गीऍ विणटो अंबो निंवत्तणं पत्तो ॥७३६॥ | भाव्यन्ते-प्रतियोगिना स्वगुणैरात्मभावमापाद्यन्त इति भाव्यानि-वेल्लुकादीनि प्राकृतशैल्या भावुकान्युच्यन्ते, अथवा प्रतियोगिनि सति तद्गुणापेक्षया तथा भवनशीलानि भावुकानि, 'लपपतपदस्थाभूवृषे' त्यादावुकञ्ताच्छीलिकत्वादिति,IX तद्विपरीतानि अभाव्यानि-वलनादीनि लोके द्विप्रकाराणि भवन्ति 'द्रव्याणि' वस्तूनि, वैडूर्यस्तत्र मणिः अभाव्योऽन्यः3 द्रव्यैः-काचादिभिरिति गाथार्थः ॥ ३४॥ स्यान्मतिः-जीवोऽप्येवंभूत एव भविष्यति, न पार्श्वस्थादिसंसर्गेण तद्भावं यास्यतीति, एतच्च असद्, यतः-'जीवः' प्राग्निरूपितशब्दार्थः, स ह्यनादिनिधनः, अनाद्यपर्यन्त इत्यर्थः, 'तद्भावनाभावितश्च' पार्श्वस्थाद्याचरितप्रमादादिभावनाभावितश्च 'संसारे' तिर्यग्नरनारकामरभवानुभूतिलक्षणे, ततश्च तद्भावनाभावित-18 त्वात् 'क्षिप्रं' शीघ्रं स 'भाव्यते' प्रमादादिभावनया आत्मीक्रियते 'मीलनदोषानुभावेन' संसर्गदोषानुभावेनेति गाथार्थः ॥ ३५ ॥ अथ भवतो दृष्टान्तमात्रेण परितोषः ततो मद्विवक्षितार्थप्रतिपादकोऽपि दृष्टान्तोऽस्त्येव, शृणु-तिक्तनिम्बोदकवासितायां भूमावाम्रवृक्षः समुत्पन्नः, पुनस्तत्र आम्रस्य च निम्बस्य च द्वयोरपि 'समागते' एकीभूते मूले, ततश्च 'संसक्त्या' सङ्गत्या विनष्टः आम्रो निम्बत्वं प्राप्तः, तिक्तफलः संवृत्त इति गाथार्थः ॥ ३६॥ दोषान्तरोपदर्शनेन प्रकृतमेव समर्थयन्नाह Jain Education Inter For Private & Personal Use Only * www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy