________________
भाव्यात् , साधु तपो वनवास इति लोके गह, निवारणं तद्रव्यान्यद्रव्याणां, तीर्थपरिहाणिोंकाप्रवृत्त्येति गाथार्थः ॥ २२ ॥ विशेषतः स्थानादिदोषानाह-परिष्वष्कितं स्थितमोहायितं च विप्रेक्षितं च 'सविलासं' सविधर्म शृङ्गारांश्च बहुविधान्-विशिष्टचेष्टा(वेषा)दीन् दृष्ट्वा भुक्तेतरयोर्दोषाः-स्मृत्यादय इति गाथार्थः ॥२३॥ तद्गतानाह–'जल्लमलपङ्कितानामपि' बहुलमलस्निग्धाङ्गानामपीति भावः, लावण्यश्रीर्यथैषां साधुदेहानां श्रामण्येऽपि सुरूपा तथैवमहं मन्ये शतगुणा आसीद् गृहवास इति गाथार्थः ॥२४॥ शब्ददोषानाह-गीतानि च पठितानि च हसितानि च 'मञ्जलांश्च' मधुरांश्चोल्लापान भूषणशब्दान् राहस्यांश्च श्रुत्वा तथा' तेन भुक्तेतरप्रकारेण ये दोषा इति गाथार्थः ॥२५॥ तद्गतानाह-गम्भीरो मधुरस्फुटो, | विशदः ग्राहकः सुस्वरः स्वरो यथैषां साधूनां स्वाध्यायस्य मनोहारी, गीतस्य तु कीदृशः भवति ?, शोभनतर इति गाथार्थः॥ २६ ॥ 'एवम्'उक्तेन प्रकारेण परस्परं मोहनीयदर्विजयकर्मदोषेण भवति दृढं प्रतिबन्धः, यस्मादेवं तस्मात् स्त्रीप्रतिबद्धं वर्जयेत्स्थानमिति गाथार्थः ॥ २७॥ पशुपण्डकेष्वपि 'इह' लोके मोहानलदीपितानां सत्त्वानां 'यद्' यस्मात् भवति प्रायोऽशुभा प्रवृत्तिः, पूर्वभवाभ्यासतः तथा भवतीति गाथार्थः ॥ २८॥ यस्मादेवं तस्माद्यथोक्तदोषवर्जितां वसतिं 'निर्ममो' ममत्वशून्यः निराशंसः इहलोकादिषु वसति सेवेत 'यतिः' साधुः, विपर्यये आज्ञादयो दोषा इति गाथार्थः ॥ २९ ॥ संसर्गदोषमाहवजिज्ज य संसग्गं पासत्थाईहिं पावमित्तेहिं । कुजा य अप्पमत्तो सुद्धचरित्तेहिं धीरेहिं ॥ ७३० ॥
पश्चव. २०
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org