________________
श्रीपञ्चव.
उपस्थापनावस्तु ३
॥ १११ ॥
Jain Education Inte
परित्यक्तज्ञातिवर्गः त्यजेत् तं सूत्रविधिना गच्छमिति गाथार्थः ॥ ७०० ॥ किमित्यत आह- शिष्यः सज्झिलको वाधर्मवाता गणिञ्चको वा एकगणस्थो न सुगतिं नयति, किन्तु यानि तत्र ज्ञानदर्शन चरणानि परिशुद्धानि तानि सुगति - मार्ग इति गाथार्थः ॥ १ ॥ पराभिप्रायमाह-
नणु गुरुकुलवासम्मी जायइ नियमेण गच्छवासो उ। जम्हा गुरुपरिवारो गच्छोत्ति निदंसिअं पुत्रिं ॥७०२ ॥
ननु गुरुकुलवासे सति जायते गच्छवासस्तु ध्रुवः, कुत इत्याह- यस्माद् गुरुपरिवारो गच्छ इत्येतन्निदर्शितं पूर्वं भवतेति गाथार्थः ॥ २ ॥ अत्रोत्तरम् -
सच्चमिणं तंमज्झे तदेगलद्धीऍ तदुचिअकमेणं । जह होज तस्स हेऊ वसिज तह खावणत्थमिणं ॥७०३॥
सत्यमिदं यदभ्यधायि भवता, किन्तु 'तन्मध्ये' गच्छमध्ये 'तदेकलब्ध्या' गच्छेकलब्ध्या हेतुभूतया 'तदुचितक्रमेण ' गच्छोचित क्रमेणयथा भवेत् तस्य गच्छत्रासस्य हेतुः वसेत् तथा, नान्यथेति ख्यापनार्थमिदं गच्छग्रहणमिति गाथार्थः ॥ ३ ॥ अन्यथा चायमगच्छवास एवेत्याह
मोत्तूण मिहुवारं अपणोऽण्णगुणाइभावसंबद्धं । छत्तमढछत्ततुल्लो वासो उ ण गच्छवासोत्ति ॥७०४॥ मुक्त्वा मिथ उपकारं, परस्परोपकार मित्यर्थः, 'अन्योऽन्यगुणादिभावसम्बद्धं' प्रधानोपसर्जन भावसंयुक्तं, छत्रमठच्छत्र
For Private & Personal Use Only
गच्छवासमहिमा
॥ १११ ॥
www.jainelibrary.org