________________
तत्तो अ पाणविज्जइ भावं नाऊण बहुविहं विहिणा। तो परिणए पवेसो अपरिणए होंति आणाई॥६७५॥|| उपस्थाप
नाविधिः उदकार्दादिपरीक्षया आगमोक्तया 'अभिगत' विदिततत्स्वरूपं ज्ञात्वा शिष्यं ततो व्रतानि ददति गुरवः, कथमित्याहचैत्यवन्दनादिना कृत्वा पूर्वोक्तविधानेन, तत्रापि च उपस्थापनायां कुर्वन्ति कायोत्सर्गमिति गाथार्थः॥६८॥ किं कुर्वन्तीत्याह-गुरवो वामपाचे शिक्षक स्थापयित्वा 'अर्थ' अनन्तरं व्रतानि ददति एकैकं 'विकृत्वः' त्रीन वारान् अनेन स्थानेन वक्ष्यमाणेनोपयुक्ताः सन्त इति गाथार्थः॥६९॥ कूपराभ्यां पट्टग्रहणं, पट्टः-चोलपट्टकः, वामकरानामिकया मुखवस्त्रिकाग्रहणं, रजोहरणेन हस्तिदन्तोन्नताभ्यां हस्ताभ्यामुपस्थापयेदिति गाथार्थः ॥ ७० ॥ पुनश्च वन्दनपूर्वकं कायोत्सर्गानन्तरं यद् भवेदित्येतद्यथा सामायिक तथैव द्रष्टव्यं, किञ्चित्पुनराह-प्रादक्षिण्यं नमस्कारेण निवेदनं कुर्वन्ति शिष्याः यथावसरं, ततो गुरुर्भणति, किमित्याह-'वर्द्धस्व गुरुगुणैरिति, अत्र प्रस्तावे परीक्षा इयं चान्या भवतीति गाथार्थः ॥७१॥ ईपदवनताः सन्तो भ्रमन्ति सुविशुद्धभावनायुक्ताः विरतिपरिणामेन, अभिसरणे स्वत एव वृद्धिर्ज्ञानादिभिस्त त्य गच्छस्य च,
अपसरणे पृष्ठतः सो वाऽन्यो वा ज्ञानादिभिः क्षीयत इति गाथार्थः ॥ ७२ ॥ द्विविधा साधूनां दिग्-आचार्याः उपामाध्यायाश्च, त्रिविधा पुनः साध्वीनां, प्रवर्तनी तृतीया विज्ञेया, तदनु च भवति स्वशक्त्या तपः आयामाम्लनिर्विकृति
कादिलक्षणमिति गाथार्थः ॥ ७३ ॥ ततश्च कार्यते यथानुरूपं शक्त्यपेक्षया तप उपधानमेव, आयामाम्लानि सप्त पुन किल नियमेनैव मण्डलिप्रवेशे भवन्तीति गाथार्थः ॥ ७४ ॥ ततश्च प्रज्ञाप्यते शिष्यकस्य भावं ज्ञात्वा बहुविधं विधिना |
9NESCORN 507
Jain Education Internet
For Private & Personal Use Only
View.jainelibrary.org