________________
श्रीपञ्चव. उपस्थापनावस्तु ३ ॥१०६॥
टुम्मि दिआगहिअं दिअभुत्तं एवमाइ चउभंगो । अइआरो पन्नत्तो धीरेहिं अणंतनाणीहिं ॥ ६६२ ॥ मूलगुणेषु प्रथमे व्रते अभिहितस्वरूपे एकेन्द्रियविकलेन्द्रिय पञ्चेन्द्रियाणां जीवानां सट्टनपरितापनोद्रापणादीन्यतिचारः, उद्रापणं
सूक्ष्मबाद
रातिचारा महत्पीडाकरणमिति गाथार्थः ॥ ५५ ॥ द्वितीये व्रते 'मृपावादे' इति मृषावादविरतिरूपे सः-अतिचारः सूक्ष्मो बादरश्च ४ ज्ञातव्यः,तत्र प्रचलादिभिर्भवति 'प्रथमः सूक्ष्मः,प्रचलायसे किं दिआ?, न पयलामी'त्यादि,क्रोधादिनाऽभिभाषणं द्वितीयः परिणामभेदादिति गाथार्थः ॥५६॥ तृतीयेऽपि व्रते- अदत्तादानविरतिरूपे 'एवमेव च' सूक्ष्मबादरभेदेन द्विविधः खल्वेषःअतिचारो भवति विज्ञेयः,तत्र तृणडगलच्छारमल्लादि अविदत्तमनाभोगेन गृह्णतः प्रथमः-सूक्ष्मोऽतिचार इति गाथार्थः॥५७॥४ 'साधर्मिकाणां' साधुसाध्वीनां 'अन्यसधर्माणां' चरकादीनां गृहिणां च क्रोधादिभिः प्रकारैः सचित्ताचित्तादि अपहरत: तथापरिणामाद्भवति द्वितीयस्तु-बादर इति गाथार्थः ॥१८॥'मैथुनस्येति मैथुन विरतिव्रतस्यातिचारः करकादिभिर्भवति ज्ञातव्यः, परिणामवैचित्र्येण, तद्गुप्तीनां च तथानुपालनं न सम्यगित्यतिचार एवेति गाथार्थः॥५९॥पञ्चमे व्रते सूक्ष्मोऽतिचार 'एषः' वक्ष्यमाणलक्षणो भवति ज्ञातव्यः, काकादिश्वगोभ्यो रक्षणं प्रसारिततिलादेः, तथा 'कप्पट्ठग'त्ति बाले ममत्वं मनागिति गाथार्थः॥६०॥ द्रव्यादीनां ग्रहणं लोभात् पुनस्तथा परिणामादेव बादरो मन्तव्यः, सर्वत्र व्रते भावो वाऽतिचारो द्रष्टव्यः, अतिरिक्तधारणं चोपधेः, मुक्त्वा ज्ञानाधुपकारं, बादर एवेति गाथार्थः॥३१॥ षष्ठे व्रते दिवागृहीतं दिवाभुक्तं | सन्निधेः परिभोगेन एवमादिश्चतुर्भङ्गः तथाविधपरिणामयोगादतिचारः प्रज्ञप्तो धीरैरनन्तज्ञानिभिरिति गाथार्थः ॥ ६२॥
Jan Education
www.jainelibrary.org
a
For Private & Personal Use Only
l