________________
Jain Education
विशेषणान्नाकाशादिभिरनेकान्तिकः, अथवा द्वितीयं प्रमाणं- सचेतना अन्तरिक्षभवा आपः, स्वाभाविक व्योमसम्भूतसम्पातत्वात् मत्स्यवत् । तथा सचेतनं तेजः यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारवत्त्वात् पुरुषवत् । तथा चेत नावान् वायुः, अपरप्रेरिततिर्यगनियमित दिग्गतिमत्त्वादू, गवादिवत् तिर्यगेवेति अन्तनताववधारणात् परमाण्वादिभिरनैकान्तिका सम्भवः, तथा वकुलाशोकदाडिमाम्म्रत्रीजपूरक कूष्माण्डी कालिङ्गीत्र पुषीप्रभृतयो वक्ष्यमाणपक्षसम्बन्धिनो वन|स्पतिविशेषाश्चेतनाः जन्मजराजीवन मरण रोहण क्षता हारोपादान दौर्हृदामयचिकित्सासम्बन्धित्वात्, यत्र यत्र जन्मजीवनादिमत्त्वमुपलभामहे तत्र तत्र चेतनत्वमपि, यथा वनितासु, यत्र यत्र चेतनत्वं नास्ति तत्र तत्र जन्मादिमत्त्वमपि नास्ति, यथा शुष्कतृणभस्मादिष्विति वैधर्म्यदृष्टान्तः, कदाचित्परस्याशङ्का - प्रत्येकमेते हेतव उपात्ता इत्यनैकान्तिकाः, तद्यथाजन्मवत्त्वादिति केवलोऽनैकान्तिकः पक्षधर्म्मः, अचेतनेष्वपि दृष्टत्वात् जातं दधीति व्यवहारवत्, तथा जरावत्त्वमपि जीर्ण वासः जीर्णा सुरेति व्यवहारवत्, तथा जीवन हेतुरप्यनेकान्तिकः, सञ्जीवितं विषं, तथा मृतं कुसुम्भमिति व्यव - हारात्, तथा सीधोर्गुडाहारवारणं विनष्टानां च मद्यानां उपक्रमैः प्रकृतिप्रत्यापादनं चिकित्सेत्युच्यते, सत्यं, प्रत्येकमेतेऽ-नैकान्तिकाः सर्वे तु समुदिता न क्वचिदध्यचेतने दृष्टाः, चेतनेष्वेव वनिताप्रभृतिषु दाडिमबीज पूरिकाकूष्माण्डीवल्यादिषु च दृष्टा इत्यनैकान्तिकव्यावृत्तिरिति कृतं प्रसङ्गेनेति, प्रकृतं प्रस्तुमः ॥ ४८ ॥
इंदियादओ पुण पसिया किमिपिपीलिभमराई । कहिऊण तओ पच्छा वयाई साहिज विहिणा उ ॥
national
For Private & Personal Use Only
कायानां जीवत्वं
www.jainelibrary.org