________________
Jain Education
| एसा पइदिणकिरिआ समणाणं वन्निआ समासेणं । अहुणा वसु ठवणं अहाविहिं कित्तइस्सामि ॥६०९ ॥ एषा 'प्रतिदिनक्रिया' चक्रवालसामाचारी श्रमणानां वर्णिता समासेन, सङ्क्षिप्तरुचिसत्त्वानुग्रहाय सङ्क्षेपेणेत्यर्थः, पञ्चवस्तुके द्वितीयं वस्तु व्याख्यातम् ॥ अथ तृतीयं व्याचिख्यासयाऽऽह - अधुना व्रतेषु स्थापनां 'यथाविधि यथान्यायं कीर्त्तयिष्यामीति गाथार्थः ॥ ९ ॥ किमिति ? एतदेवाह -
पइदिणकिरिया इहं सम्मं आसेविआऍ संतीए ।
वयठवणाए धन्ना उविंति जं जोग्गयं सेहा ॥ ६१० ॥ द्वितीयं द्वारं समाप्तम् ॥
प्रतिदिन क्रियया इह सम्यगासेवितया सत्या, किमित्याह - व्रतस्थापनायाः 'धन्याः' पुण्यभाजनाः उपयान्ति यद्' यस्मात् कारणाद् योग्यतां शिक्षका इति गाथार्थः ॥ १० ॥ इति प्रतिदिन क्रियानामकं द्वितीयं वस्तु संसारक्यऊ वयाणि ते जेसि १ जह य दायवा २ । पाले अवा य जहा ३ वोच्छामि तहा समासेणं ॥ ६११ ॥ ( सूयागाहा )
संसारक्षय हेतूनि ' व्रतानि' प्राणातिपातादिविरत्यादीनि तानि येभ्यो यथा वा दातव्यानि पालयितव्यानि व 'यथा' येन प्रकारेण वक्ष्ये 'तथा' समासेनैवेति, सूचागाथासमासार्थः ॥ ११ ॥ व्यासार्थं त्वाह
ional
For Private & Personal Use Only
www.jainelibrary.org