________________
श्रीपञ्चव. प्रतिदिन क्रिया २
1196 11
Jain Education
छउमत्थो परमत्थं विसयगयं सबहा न याणाई । सेअममिच्छत्ताओ इमस्स मग्गाणुसारित्तं ॥ ६०५ ॥ छद्मस्थः 'परमार्थे' याथात्म्यं विषयगतं सर्वथा न जानाति, तच्चेष्टाव्यभिचारात् श्रेयः अमिथ्यात्वाद् - आस्तिक्येन 'अस्य' छद्मस्थस्य 'मार्गानुसारित्वम् आगमपारतन्त्र्यमिति गाथार्थः ॥ ५ ॥ व्यतिरेकमाहजो पुण अविसयगामी मोहा सविअप्पनिम्मिओ सुद्धो । उवले व कंचणगओ सो तम्मि असुद्धओ भणिओ ॥ ६०६ ॥
यः पुनरविषयगामी परिणामो मोहात् स्वविकल्पनिम्मितः शुद्धो, न वस्तुस्थित्या, उपल इव काञ्चनगतः धत्तूरकादिदोषात् स तत्राशुद्धो भणितः तत्त्वज्ञैरिति गाथार्थः ॥ ६ ॥ अत्रैवोपचयमाहमोत्तणुक्कडदोसं साहम्माभावओ नहि कयाइ । हवइ अतत्ते तत्तं इइपरिणामो पसिद्धमिणं ॥ ६०७ ॥
मुक्त्वत्को प्राणिनं साधर्म्याभावात् कारणात् नहि कदाचित् किमित्याह - भवत्यतत्त्वे तत्त्वम् इति - ए. वम्भूतः परिणामः प्रसिद्धमिदं लोके इति गाथार्थः ॥ ७ ॥ देवयजइमाईसुवि एसो एमेव होइ दुबो । विसयाविसयविभागा बुहेहिँ मइनिउणबुद्धीए ॥ ६०८ ॥ देवतायत्यादिष्वप्येषः - परिणाम एवमेव भवति द्रष्टव्यः, विषयाविषयविभागात् लिङ्गशुद्ध्या, बुधैर्मतिनिपुणदृष्ट्या, इति गाथार्थः ॥ ८ ॥ उपसंहरन्नाह
For Private & Personal Use Only
छद्मस्थस्य परिणामो मानं
॥ ९८ ॥
www.jainelibrary.org