SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna सीसस्स हवइ एत्थं परिणामविसुद्धिओ गुणो चेव । सविसयओ एसोचिअ सत्थो सवत्थ भणियमिणं ॥ ६०१ ॥ शिष्यस्य भवत्यत्र न दोष इति योगः, अपि तु परिणामविशुद्धेः कारणाद् गुण एव शिष्यस्य, स्वविषयो ह्यदुष्टालम्बन 'एष एव ' परिणामः 'शस्तः' शोभनः 'सर्वत्र' वस्तुनि, भणितमिदं वक्ष्यमाणं, भगवद्भिरिति गाथार्थः ॥ १ ॥ किं तदित्याह - परमरहस्सा मिसीणं समत्तगणिपिडगहत्थसाराणं । परिणामिअं पमाणं निच्छयमवलंबमाणाणं ॥ ६०२॥ 'परमरहस्य' धर्मगुह्यं ऋषीणामेतत् समस्तगणिपिटकाभ्यस्तसाराणां विदितागमतत्त्वानामित्यर्थः यदुत पारिणामिकं प्रमाणं धर्ममार्गे निश्चयमवलम्बमानानां शेषं व्यभिचारीति गाथार्थः ॥ २ ॥ एतदेवाह - अंगारमदगस्सवि सीसा सुअसंपयं जओ पत्ता । परिणामविसेसाओ तम्हा एसो इहं पवरो ॥ ६०३ ॥ अङ्गारमर्दकस्याप्यभव्याचार्यस्य शिष्याः श्रुतसम्पदं यतः प्राप्ताः- भावरूपामेव परिणामविशेषात् छद्मस्थनिरूपणया शुद्धादित्यर्थः, तस्मादेषः- परिणामः 'इह' परलोकमार्गे प्रवर इति गाथार्थः ॥ ३ ॥ यथा विधिस्तमाह - एसो पुण रागाईहवाहिओ विसयसंपयट्टो उ । सुदुमाणाभोगाओ ईसिं विगलोऽवि सुद्धोति ॥ ६०४ ॥ एष पुनः- परिणामो रागादिभिरबाधितः सन् विषयसंप्रवृत्तश्च नाविषयगामी, सूक्ष्मानाभोगात् सकाशादीषद्विकलोsपि - विषयान्यथात्वादिना, शुद्ध इति गाथार्थः ॥ ४ ॥ एतदेव समर्थयन्नाह - For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy