________________
पञ्चच. १७
Jain Education Inte
यथैव विधिरहिताः के इत्याह- मन्त्रादयो, हन्दि नैव सिद्ध्यन्ति, आदिशब्दाद्विद्यादिग्रहः भवन्ति चापकारपरा इहैव तथैवैतदपि विज्ञेयं -सूत्राविधिकरणमिति गाथार्थः ॥ ९४ ॥
ते चैव उ विहिजुत्ता जह सफला हुंति एत्थ लोअम्मि । तह चैव विहाणाओ सुत्तं नियमेण परलोए ॥ ५९५ ॥
विधियुक्ता - मन्त्रादयः यथा सफला भवन्ति अत्र लोके, दृश्यत एवैतत् तथैव विधानाद्धेतोः सूत्रं नियमेन परलोके, विधियुक्तं सफलमिति गाथार्थः ॥ ९५ ॥ एतदेवाह -
| विहिदाणम्मि जिणाणं आणा आराहिया धुवं होइ । अण्णेसिं विहिदंसणकमेण मग्गस्सऽवत्थाणं ॥ ५९६ ॥ विधिदाने सूत्रस्य जिनानामाज्ञाऽऽराधिता ध्रुवं भवति, सम्यक् प्रवृत्तेः, तथाऽन्येषां प्राणिनां विधिदर्शनक्रमेण मार्गस्यावस्थानम्, उन्मार्गदर्शनाभावादिति गाथार्थः ॥ ९६ ॥
| सम्मं जहुत्तकरणे अन्नेसिं अप्पणो अ सुपसत्थं । आराहणाऽऽऽययफला एवं सइ संजमायाणं ॥ ५९७ ॥ सम्यक्त्वं भवति यथोक्तकरणे सत्यन्येषां तद्द्द्रष्टृणामात्मनश्च सुप्रशस्तमिति सम्यक्त्वविशेषणं, आराधना आयतफला, आयतो- मोक्षः, 'एवं सति' विधिकरणे, संयमात्मनोरिति गाथार्थः ॥ ९७ ॥
For Private & Personal Use Only
www.jainelibrary.org