________________
श्रीपञ्चव. प्रतिदिनक्रिया २ ७
॥ ९६ ॥
Jain Education Int
यत्केवलिना भणितम् - उपधानादि केवलज्ञानेन तत्त्वतो ज्ञात्वा तस्यान्यथा विधाने करणे आज्ञाभङ्गः केवलिनः महापापो, भगवदश्रद्धानादिति गाथार्थः ॥ ९० ॥ एवमाज्ञादोषः, अनवस्थादोषमाह - एगेण कयमकज्जं करेइ तप्पञ्च्चया पुणो अन्नो । सायाबहुलपरंपर वोच्छेओ संजमतवाणं ॥ ५९१ ॥ एकेन कृतमकार्यं केनचित्संसाराभिनन्दिना करोति तत्प्रत्ययं तदेव पुनरन्यः संसाराभिनन्द्येव, एवं सातबहुलपरम्परया प्राणिनां व्यवच्छेदः संयमतपसोः शुद्धयोरिति गाथार्थः ॥ ९१ ॥ एवमनवस्थादोषो, मिथ्यात्वदोष माहमिच्छत्तं लोअस्सा न वयणमेयमिह तत्तओ एवं । वितहासेवण संकाकारणओ अहिगमेअस्स ॥५९२॥ मिथ्यात्वं लोकस्य भवति, कथमित्याह-न वचनमेतत् - जैनम् 'इह' अधिकारे 'तत्वत:' परमार्थतः एवम्, अन्यथा - ऽयमेवं न कुर्यादिति शङ्कया, तथा वितथासेवनया हेतुभूतया शङ्काकारणत्वात् लोकस्य अधिकं मिथ्यात्वमेतस्य - वितथकर्त्तुरिति गाथार्थः ॥ ९३ ॥ एवं मिथ्यात्वदोषः, विराधनादोषमाह
एवं चऽणेगभविया तिवा सपरोवघाइणी नियमा । जायइ जिणपडिकुट्ठा विराहणा संजमायाए ॥ ५९३ ॥ एवं च आज्ञादेः 'अनेकभविकी' प्रभूतजन्मानुगता 'तीव्रा' रौद्रा स्वपरोपघातिनी 'नियमाद्' एकान्तेन 'जायते' भवति, जिनप्रतिकुष्टा विराधना संयममात्मनोः अकुशलानुबन्धेनेति गाथार्थः ॥ ९३ ॥ इहैवैदम्पर्यमाह - जह चेव उ विहिरहिया मंताई हंदि णेव सिज्झति । होंति अ अवयारपरा तहेव एयंपि विन्नेअं ॥ ५९४ ॥
For Private & Personal Use Only
उपधाना
करणे दोषः
॥ ९६ ॥
www.jainelibrary.org