________________
वती, एकादशवार्षिकस्य चामूनीति हृदय स्थनिर्देशः क्षुल्लिकाविमानादीन्यध्ययनानि कालयोग्यतामङ्गीकृत्य पञ्च ज्ञातव्यानि, तद्यथा - 'खुड्डिया विमाणपविभत्ती (महल्लिया विमाणपविभत्ती) अंगचूलिया वग्गचूलिया वियाहचूलिय'त्ति गाथार्थः ॥८४॥ द्वादशवार्षिकस्य ' तथा ' कालपर्यायेण अरुणोपपातादीनि पञ्चाध्ययनानि, तद्यथा - 'अरुणोववाए वरुणोववाए गरुलोववाए वेलंधरोववाए वेसमणोववाए', त्रयोदशवार्षिकस्य तथोत्थानश्रुतादीनि चत्वारि, तद्यथा - ' उट्ठाणसुयं समुट्ठाण सुयं | देविंदोववाओ णागपारियावणियाओ' त्ति गाथार्थः ॥ ८५ ॥ चतुर्दशवर्षस्य ' तथा ' पर्यायेण आशीविषभावनां जिना ब्रुवते, नारतः, पञ्चदशवर्षस्य तु पर्यायेणैव दृष्टिविषभावनां तथैव ब्रुवत इति गाथार्थः ॥ ८६ ॥ षोडशवर्षादिषु च पर्यायेष्वेकोत्तरवर्द्धितेषु 'यथासङ्ख्यं' यथाक्रमं चारणभावना महास्वपनभावना तेजोनिसर्ग इत्येतानि त्रीणि भवन्तीति गाथार्थः | ॥८७॥ एकोनविंशतिकस्य तु पर्यायेण दृष्टिवादो द्वादशमङ्गमत एव शेषलाभो ज्ञेय इति, सम्पूर्णविंशतिवर्षपर्यायेणानुपाती - योग्यः सर्वस्य सूत्रस्य बिन्दुसारादेरिति गाथार्थः ॥ ८८ ॥
उवहाणं पुण आयंबिलाइ जं जस्स वन्निअं सुत्ते । तं तेणेव उदेअं इहरा आणाइआ दोसा ॥ ५८९ ॥
उपधानं पुनरायामाम्लादि यद् यस्य अध्ययनादेः वर्णितं सूत्र एव-आगमे 'तद्' अध्ययनादि तेनैव तु देयं, नान्येन, 'इतरथा' अन्यथा दाने आज्ञादयो दोषाश्चत्वार इति गाथार्थः ॥ ८९ ॥ एतदेवाह -
जं केवलिणा भणिअं केवलनाणेण तत्तओ नाउं । तस्सऽण्णहा विहाणे आणाभंगो महापावो ॥५९०॥
Jain Education anal
For Private & Personal Use Only
आचारप्र कल्पादि
दाने
पर्यायः
www.jainelibrary.org