________________
मुण्डयितुमनाचरणयोग्यः - अनासेवनीयः, यस्तं मुण्डयति तस्य मुण्डयतः अमुण्डनीयदोषा अनिवारिता भवन्त्येवे - त्यर्थः, पूर्वाः येऽप्रत्राजनीयान् प्रत्राजयतः, एवं सर्वत्र भावनीयमिति गाथार्थः ॥ ७५ ॥ मुण्डितः स्यात् - कथञ्चिदनाभोगादिना शिक्षयितुं ग्रहणशिक्षादि 'अनाचरणयोग्यः' अनासेवनीयः, अथवेति पूर्वप्रकृतापेक्षः, शिक्षयतस्तमयोग्यं पूर्वपदसम्बन्धिनः अनिवारिता दोषाः, इहाप्येवं वा पाठ इति गाथार्थः ॥ ७६ ॥ शिक्षितः 'स्यात्' कथञ्चिद्, ग्रहणशिक्षादिग्राहित इत्यर्थः, उपस्थापयितुं व्रतेष्वना चरणयोग्यः - अनासेवनीयः, अथवोपस्थापयतः तं पूर्वपदानिवारिता दोषाः पूर्ववदिति गाथार्थः ॥ ७७ ॥ उपस्थापितः 'स्यात्' कथञ्चित् पूर्ववदेव सम्भोक्तुमुपाध्याये नानाचरणयोग्यः यः कश्चित्, अथवा संभोजयतस्तमिति पूर्ववत् पूर्वपदानिवारिता दोषाः एतदप्येवमेवेति गाथार्थः ॥ ७८ ॥ सम्भुक्तः स्यात् - कथचिदुपाध्यायादिना संवासयितुं स्वसमीपेऽनाचरणयोग्यः - अनासेवनीयः यः कश्चित् तं संवासयतः आत्मसन्निधौ दोषा अनिवारिता भवन्त्येवेति भावः, पूर्वाः येऽसंवास्यं संवासयत इति गाथार्थः ॥ ७९ ॥
एमाई पडिसिद्धं सवंचिअ जिणव रेहऽजोगस्स । पच्छा विन्नायस्सवि गुणठाणं विजनाएणं ॥५८०॥ दारं ।
एवमादि 'प्रतिषिद्ध' निराकृतं सर्वमेव 'जिनवरैः ' भगवद्भिरयोग्यस्य विनेयस्य, पश्चाद्विज्ञातस्याप्ययोग्यतया 'गुणस्थानं' संवासानुयोगदानादि वैद्यज्ञातेन, स हि यदैवासाध्यं दोपं जानाति तदैव क्रियातो विरमतीति गाथार्थः ॥ ८० ॥ द्वारम् ॥ कालक्रमेण पत्तं संवच्छरमाइणा उ जंजम्मि । तं तम्मि चेव धीरो वाएज्जा सो अ कालोऽयं ॥ ५८१ ॥
I
Jain Educa national
For Private & Personal Use Only
मुण्डनशिक्षोपस्थापनसंभोगवासदोषाः
www.jainelibrary.org