________________
Jain Education Int
क्रियाकलापस्य स्वाध्यायः यथाक्रमं पर्यायमाश्रित्य, 'तस्य' स्वाध्यायस्य गुणा वर्णिता 'एते' वक्ष्यमाणा इति गाथार्थः ॥ ५४ ॥ आयहिअपरिण्णा भावसंवरो नवनवो अ संवेगो ।
निकंपया तवो निज्जराय परदेसिअत्तं च ॥ ५५५ ॥ सूचागाहा । आत्महित परिज्ञा स्वाध्यायः, तथा 'भावसंवरः' परमार्थसंवरः तत एव तथा नवनवश्च संवेगोऽपूर्वागमेन, तथा निष्कम्पता मार्गे, तथा तपः परं प्रधानं, तथा निर्जरा च कर्म्मणः, तथा परदेशिकत्वं च मार्गस्य स्वाध्यायादेवेति गाथासमुदायार्थः ॥५५॥ | आयहिअमजाणतो मुज्झइ मूढो समाययइ कम्मं । कम्मेण तेण जंतू परीति भवसागरमणंतं ॥ ५५६ ॥ आयहिअं जाणंतो अहिअनिअत्तीअ हिअपवत्तीए ।
हवs जओ सो तम्हा आयहिअं आगमेअवं ॥ ५५७ ॥ दारं ॥
आत्महितमजानानो भावतः मुह्यति कृत्येषु मूढः सन् समादत्ते कर्म्म-ज्ञानावरणीयादि, कर्म्मणा तेन हेतुभूतेन 'जन्तुः' प्राणी 'परीति' पर्यटति 'भवसागरं' संसारसमुद्रम् 'अनन्त' मिति महाप्रमाणमिति गाथार्थः ॥ ५६ ॥ एवं व्यतिरेकमभिधाये हैवान्वयमाह
आत्महितं जानानः परमार्थतः 'अहितनिवृत्तौ च' प्राणातिपाताद्यकरणरूपायां 'हितप्रवृत्तौ च' परार्थपरमार्थकरणरूपायां भवति यतोऽसौ - आत्महितज्ञः यस्मादेवं तस्मादात्महितमागन्तव्यं - सूत्रतो ज्ञातव्यमिति गाथार्थः ॥ ५७ ॥ द्वारं ॥
For Private & Personal Use Only
स्वाध्यायगुणाः
www.jainelibrary.org