SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिनक्रिया २ ॥ ९१ ॥ Jain Education Int कीर्त्तितमेतत्, तथा आराधितं नाम प्रकारैः सम्यगेभिः अनन्तरोदितैः 'निष्ठापितं ' समाप्तिं नीतमिति गाथार्थः ॥ ५० ॥ | एअं पच्चक्खाणं विसुद्धभावस्स होइ जीवस्स | चरणाराहणजोगा निवाणफलं जिणा बिंति ॥ ५५१ ॥ एतत् प्रत्याख्यानम् - अनन्तरोदितं विशुद्धभावस्य सतो भवति जीवस्यावश्यं, तथा चरणाराधनयोगात् कारणात् 'निर्वाणफलं' मोक्षफलं जिना ब्रुवते एवमिति गाथार्थः ॥ ५१ ॥ एवं प्रस्तुतोपयोगि प्रासङ्गिकमभिधाय प्रस्तुतशेषमाहथुइदाणं जह पुष्विं वदति तओ अ चेइए सम्मं । बहुवेलं च करेंती पच्छा पेहंति पुञ्छणगं ॥ ५५२ ॥ स्तुतिदानं प्रतिक्रमणपर्यन्ते 'यथा पूर्व' मिति यथा प्रादोषिक उक्तं तथैवावसेयं, वन्दन्ते 'ततश्च' तदनन्तरं च चैत्यानि 'सम्यगू' अस्खलितादिप्रकारेण, बहुवेलां च कुर्वन्ति, तदनन्तरं च पश्चात् प्रेक्षन्ते सूत्रविधिना 'पुञ्छनं' रजोहरणमिति गाथार्थः ॥ ५२ ॥ किमर्थं बहुवेलां कुर्वन्तीत्यत्राह - गुरुणाऽणुष्णायाणं सवं चिअ कप्पई उ समणाणं । किञ्च्चंति (पि) जओ काउं बहुवेलं ते करिंति तओ ॥ ५५३ ॥ आचार्येणानुज्ञातानां सतां सर्वमेव कल्पते कर्त्तुं श्रमणानां, 'कृत्यमपि' स्वाध्यायादि यतः कर्त्तु, नान्यथा, बहुवेलां ततः कुर्वन्ति युगपदेव कृत्य सूक्ष्मयोगानुज्ञापनायेति गाथार्थः ॥ ५३ ॥ उवहिं च संदिसाविअ पेहिंति जहेव वणिअं पुत्रिं । विच्चमि अ सज्झाओ तस्स गुणा वण्णिआ एए ॥ ५५४॥ 'उपधिं च' पूर्वोक्तं 'सन्देश्य' अनुज्ञाप्य गुरुं प्रेक्षन्ते यथैव वर्णितं पूर्वमत्रैव तथैवेति, 'विच्चमि' अपान्तराले च उक्त For Private & Personal Use Only बहुवेल - हेतुः ॥ ९१ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy