________________
श्रीपञ्चव. प्रतिदिन
क्रिया २
॥ ९० ॥
Jain Education In
पासंगिअभोगेणं वेआवञ्च्चमिअ मोक्खफलमेव । आणाआराहणओ अणुकंपादिव विसयंमि ॥ ५४३ ॥ प्रासङ्गिकभोगेन हेतुभूतेन वैयावृत्त्यम्'इय' एवं मोक्षफलमेव पारम्पर्येण, अत्रोपपत्तिः - ' आज्ञाआराधनात् ' तीर्थकर - वचनाराधनाद् अनुकम्पादय इव विषये, आदिशब्दाद् अकामनिर्जरादिपरिग्रहः, निदर्शनमेतदिति गाथार्थः ॥ ४३ ॥ इहैव भावार्थमाह
सुहतरुछायाइजुओ अह मग्गो होइ कस्सय पुरस्स । एक्को अण्णो णेवं सिवपुरमग्गोऽवि इअ णेओ ॥५४४ ॥
शुभतरुच्छायादियुक्तः, आदिशब्दात्पुष्पफलपरिग्रहः, यथा 'मार्गः' पन्था भवति कस्यचित्पुरस्य वसन्तपुरादेः, एक एवम्भूतः, अन्यो नैवम्भूतः, अपितु विपर्ययवान्, शिवपुरमार्गोऽप्येवं - द्विविध एव ज्ञेय इति गाथार्थः ॥ ४४ ॥ विशेषतो द्वैविध्यमाह -
अणुकंपाविओं पढमो सुहपरगामीण सो जिणाईणं । तयजत्तगो उ इअरो सदेव सामण्णसाहूणं ॥ ५४५ ॥
अनुकम्पावैयावृत्त्यप्राप्तो मार्गः शिवपुरस्य प्रथमः, स च जिनादीनां ज्ञेयः सुखपरगामिनां, 'तदयत्नतस्तु' अनुकम्पाद्ययलेन इतरो मार्गो-द्वितीयः स च सदैव सामान्यसाधूनां ज्ञेयः, आत्मार्थपराणामिति गाथार्थः ॥ ४५ ॥ उपसंहरन्नाहता नत्थि एत्थ दोसो पच्चक्खाएवि निरहिगरणम्मि । गुणभावाओ अ तहा एवं च इमं हवइ सुद्धं ॥ ५४६ ॥ यस्मादेवं तस्मान्नास्त्यत्र दोषः अन्नदानादौ प्रत्याख्यातेऽपि सति, स्वयं 'निरधिकरण' इत्यधिकरणाभावे सति गुणभा
For Private & Personal Use Only
वैयावृत्त्य -
कृत्यं
॥ ९० ॥
www.jainelibrary.org