________________
Jain Education Inter
भावितजिनवचनानां प्राणिनां 'ममत्वरहितानां' सामायिकत्रतां नास्त्येव 'विशेषः ' भेदः, आत्मनि परे च तुल्यशीले, ततः वर्जयेत् पीडामुभयोरपि-स्वपरयोरपीति गाथार्थः ॥ ३९ ॥ इहैव प्रक्रमे वैयावृत्त्यविधिमाह| पुरिसं तस्सुवयारं अवयारं चऽप्पणो अ नाऊणं । कुज्जा वेआवडिअं आणं काउं निरासंसो ॥ ५४० ॥
'पुरुषम् ' आचार्यादिं तस्योपकारं - स्वाध्याय वृद्धिसत्त्वोपदेशादि ' अपकारं च' वीर्य -हासश्लेष्मचर्यादिं आत्मनश्चोपकारमपकारं च ज्ञात्वा, उपकारो ज्ञानादेरुपष्टम्भः गुरुजननियोगात् निर्जराव्यत्ययादपकारः, अथवा ग्लानाद्यपेक्षयोपकारापकारौ वाच्यौ, एवं कुर्याद्वैयावृत्त्यम् - अशनदानादि 'आज्ञां कृत्वा' आगमप्रामाण्यात् 'निराशंसो' विहितानुष्ठानबद्धो वेति गाथार्थः ॥ ४० ॥ अस्यैव गुणमाह
भरणवि पुवभवे वेआवच्चं कथं सुविहिआणं । सो तस्स फलविवागेण आसि भरहाहिवो राया ॥ ५४१ ॥
भरतेनापि च चक्रवर्त्तिना 'पूर्वभवे' अन्यजन्मनि वैयावृत्त्यं कृतं 'सुविहितानां' साधूनां स 'तस्य' वैयावृत्त्यस्य ' फल - विपाकेन' सातावेदनीयोदयेन आसीद् भरताधिपो राजा चक्रवर्तीति गाथार्थः ॥ ४१ ॥ भुंजित्तु भरहवासं सामन्नमणुत्तरं अणुचरित्ता । अट्ठविहकम्ममुको भरहनरिंदो गओ सिद्धिं ॥ ५४२ ॥ स च भरतः भुक्त्वा भरतवर्ष पट्खण्डं तदनु श्रामण्यमनुत्तरं - प्रधानमनुचरित्वा केवलिविहारेणाष्टविधकर्ममुक्तः सन् चरमकाले भरतनरेन्द्रो महात्मा गतः सिद्धिं सर्वोत्तमामिति गाथार्थः ॥ ४२ ॥
For Private & Personal Use Only
वैयावृत्य
कृत्यं
www.jainelibrary.org