SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ दानोपदेशकरणं यतश्चैवमतो न कृतप्रत्याख्यानः पुमानाचार्यादिभ्यः, आदिशब्दादुपाध्यायतपस्विशिक्षकग्लानवृद्धादिपरिग्रहः, दद्यात् किम्?, अशनादि, स्यादेतत्-ददतो वैयावृत्त्यलाभ इत्यत आह-न च विरतिपालनाद्वैयावृत्त्यं प्रधानतरम् , अतोऽसत्यपि तल्लाभे किं तेनेति गाथार्थः ॥ ३४ ॥ एवं विनेयजनहिताय पराभिप्रायमाशय गुरुराहनो तिविहं तिविहेणं पञ्चक्खइ अण्णदाणकारवणं । सुद्धस्स तओ मुणिणो ण होइ तब्भंगहेउत्ति ॥५३५॥ __ न 'त्रिविधं' करणकारणानुमतिभेदभिन्नं 'त्रिविधेन' मनोवाक्काययोगत्रयेण प्रत्याख्याता प्रत्याचष्टे, प्रक्रान्तमशनादि, अतोऽनभ्युपगतोपालम्भश्चोदकमतं, यतश्चैवमन्यस्मै दानमशनादेरिति गम्यते तेन हेतुभूतेन कारणं-भुजिकियागोचरमन्यदानकारणं तत् 'शुद्धस्य' आशंसादिदोषरहितस्य 'ततः' तस्मात् 'मुनेः' साधो भवति तद्भङ्गहेतु' प्रक्रान्तप्रत्याख्यानभङ्गहेतुः, तथा अनभ्युपगमादिति गाथार्थः ॥ ३५॥ किञ्चसयमेवष्णुपालणिअंदाणुवएसाय नेह पडिसिद्धा। तो दिज उवइसिज व जहा समाहीअ अन्नेसिं॥५३६॥ _ 'स्वयमेव' आत्मनैवानुपालनीयं प्रत्याख्यानमित्युक्तं नियुक्तिकारेण, दानोपदेशौ च नेह प्रतिषिद्धौ, तत्रात्मनाऽऽनीय है दानं दानं दानश्राद्धकादिकुलाख्यानं तूपदेश इति, यस्मादेवं तस्मात् दद्यादुपदिशेद्धा, 'यथासमाधिना' यथासमाधानेन 'अन्येभ्यो' बालादिभ्य इति गाथार्थः ॥ ३६ ॥ अमुमेवार्थ स्पष्टयानाहकयपञ्चक्खाणोऽविअआयरिअगिलाणवालवुड्डाणं। दिजाऽसणाइ संते लाभे कयवीरिआयारो ॥५३७॥ Jain Educatio n al For Private & Personal use only Cwww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy