SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्री पञ्चव. प्रतिदिनक्रिया २ ॥ ८८ ॥ Jain Education Int उपयोगः एतत् खलु नमस्कारसहितादि, एता विकृतयो भोग्या न वेति यो 'योगो' व्यापारः, 'उच्चारणादिविधिः' व्यक्तोच्चारणनमस्कारपाठ गुर्वनुज्ञापनादि, 'ऊर्ध्वमपि च' भोगकाले 'कार्य भोगगत' इति वेदनोपशमादिकार्याय भोगप्राप्त इति गाथार्थः ॥ ३१ ॥ 'जिनदृष्ट' मिति व्याचष्टे जिणदिट्ठमेवमेअं निरभिस्संगं विवेग जुत्तस्स । भावप्पहाणमणहं जायइ केवल्लहेउति ॥ ५३२ ॥ जिनदृष्टमेवमेतद्-उक्तेन प्रकारेण निरभिष्वङ्गं सत् विवेकयुक्तस्य सतः 'भावप्रधानं' भावगर्भ 'अनघम्' अपापं जायते कैवल्य हेतुः, शुद्धसंवरत्वादिति गाथार्थः ॥ ३२ ॥ ॥ ' स्वयमेवानुपालनीय' मित्येतदधिकृत्याह - आह जह जीवघाए पच्चक्खाए न कारए अन्नं । भंगभयाऽसणदाणे धुवकारवणत्तिनणु दोसो ॥ ५३३ ॥ प्रत्याख्यानाधिकार एवाह परः किमाह ?, यथा 'जीवघाते' प्राणातिपाते प्रत्याख्याते सत्यसौ प्रत्याख्याता न कारयत्यन्यमिति न कारयति जीवघातमन्यं प्राणिनमिति, कुतः ?, 'व्रतभङ्गभयात्' प्रत्याख्यानभङ्गभ्यादित्यर्थः, अश्यत इत्यशनम् - ओदनादि तस्य दानमशनदानं तस्मिन्नशनदाने, अशनशब्दः पानाद्युपलक्षणार्थः, ततश्चैतदुक्तं भवति - कृतप्रत्याख्यानस्य सतः अन्यस्मै अशनादिदाने ध्रुवं 'कारावण' मिति अवश्यं भुजिक्रियाकारणम्, अशनादिलाभे सति भोक्तुर्भुजिक्रिया सद्भावात् ततः किमिति चेत् ननु 'दोषः ' प्रत्याख्यानभङ्गो दोष इति गाथार्थः ॥ ३३ ॥ अतः - नो कयपच्चक्खाणो आयरियाईण दिज्ज असणाई । ण य विरइपालणाओ वेआवच्चं पहाणयरं ॥ ५३४ ॥ For Private & Personal Use Only उपयोगजिनदृष्ट स्वयमनु पालनानि 11 26 11 www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy