________________
अण्णे भणंति जइणो तिविहाहारस्स तं खलु न जुत्तं । सबविरईउ एवं भेअग्गहणे कहंसा उ?॥५२८॥ त्रिविधश अन्ये भणन्ति-दिगम्बरादयः 'यतेः' प्रव्रजितस्य 'त्रिविधाहारस्य' अशनादेः तद्'इत्वरप्रत्याख्यानं खलु 'न युक्तं' न स्यापि प्रसाधु, कुत इत्याह-सर्वविरतेः कारणाद्,अस्या एवं भेदग्रहणेऽन्यतरत्यागेन कथं सा सर्वविरतिरिति गाथार्थः ॥२८॥
त्याख्यानं अत्र परिहारमाहआणणु अप्पमायसेवणफलमेअं दंसिअं इहं पुत्विं । तब्भोगमित्तकरणे सेसच्चाया तओ अहिओ ॥ ५२९॥
नवप्रमादसेवनाफलमेततू-इत्वरप्रत्याख्यानं दर्शितमिह पूर्व, 'तन्मात्रभोगकरणे' पानमात्रासेवने इत्यर्थः 'शेषत्यागाद' अशनादित्यागादू 'असौ' अप्रमादोऽधिकः, अतो नायुक्तमिति गाथार्थः॥२९॥ एवं कहंचि कज्जे दुविहस्सवितंन होइ चिन्तमि। सच्चं जइणो नवरं पाएण न अन्नपरिभोगो॥५३०॥ 17 | एवं सूक्ष्मेक्षिकायां कथञ्चित् 'कार्ये' ग्लानादौ द्विविधस्याप्याहारस्य 'तद्' इत्वरप्रत्याख्यानं न भवति?, चिन्त्यमिदम् , एतदपि प्राप्नोतीत्यर्थः, एतदाशङ्कयाह-सत्यमिष्यत एतत् , 'यतेः' प्रव्रजितस्य नवरं 'प्रायशो' बाहुल्येन 'नान्यपरिभोगो'
न स्वाद्यादिसेवनमतोऽनाचरणेति गाथार्थः ॥ ३०॥ ॥'आकारैर्विशुद्ध 'मिति व्याख्यातम् , अधुना उपयुक्ता' इत्यादि द्रव्याचिख्यासुराह
उवओगो एवं (अ)खलु एआ विगई नवित्ति जो जोगो।उच्चरणाई उविही उडंपि अकजभोगगओ॥५३१॥
Jain Educa
t
ional
For Private & Personal Use Only
www.jainelibrary.org