________________
सामायिके आकाराभाव:
'तत्' सामायिक निरभिष्वङ्ग' निराशंसमेव, समतया हेतुभूतया, 'सर्वभावविषयं तु' सर्वपदार्थविषयमेव निरभिष्वङ्ग, 'कालावधावपि' यावज्जीवनमित्येवंभूते परं जीवनाद् भङ्गभयात् , नावधित्वेन वर्तते, अतस्तत्रापि निरभिष्वङ्गमेवेति गाथार्थः॥१९॥ निदर्शनमाहमरणजयज्झवसिअसुहडभावतुल्लमिह हीणनाएणं । अववायाण न विसओ भावेअवं पयत्तेणं ॥२०॥ __ 'मरणजयाध्यवसितसुभटभावतुल्यं मर्त्तव्यं वा जयो वा प्राप्तव्य इति प्रवृत्तसुभटाध्यवसायसदृशं 'इह' लोके 'हीनज्ञातेन' तुच्छोदाहरणेन, एकाग्रतामात्रमाश्रित्य, यतश्चैवमतः 'अपवादानाम्' आकारसंज्ञितानां न विषयः, तथाविधैकरूपस्वाद्, भावयितव्यम्' भावनीयमेतत्प्रयत्नेन, न छुपेयविशेषे उपायविशेषतः प्रवर्त्तमान आशङ्कावान् भवतीति गाथार्थः॥२०॥
यत एवेदमित्थं महदत एवाहएत्तोच्चिअ पडिसेहो दढं अजोगाण वन्निओसमए। एअस्स पाइणोऽविअबीअंति विही एसइसइणा।२१॥ | 'अत एव' महत्त्वात् कारणात् प्रतिषेधो-निषेधो दानं प्रति 'दृढम्' अत्यर्थम् 'अयोग्यानां क्षुद्रसत्त्वानां वर्णितः 'समये' सिद्धान्ते 'एतस्य' सामायिकस्य, तथा पातिनोऽपि च' प्रतिपातवतोऽपि चावश्यन्तया 'बीज'मित्यवन्ध्यं मुक्तिबीजमितिकृत्वा विधिश्च दानं प्रति अतिशायिना' केवलिनाऽस्य वर्णितः, सिंहजीवाभीरादौ न भङ्गदोषा अत्र, विशेषतः प्रकृत्यैव तद्भावाद्, गुणांशस्याधिकत्वात् मारणात्मकसन्निपाते स्मृतिकायौंषधदानवदिति गाथार्थः ॥ २१॥ अतः
Jain Education interme
For Private & Personal Use Only
X
ww.jainelibrary.org