________________
प्रतिक्रमण विधि:
जीवः प्रमादबहलः 'तद्भावनाभावित एव' प्रमादभावनाभावितस्तु संसारे, यतश्चैवमतोऽभ्यासपाटवात् 'तत्रापि' आलो- चनादौ सम्भाव्यते सूक्ष्मः 'असौ' प्रमादः ततश्च दोष इति, तेन कारणेन तजयाय कायोत्सर्ग इति गाथार्थः ॥ ७९ ॥ चोएइ हंदि एवं उस्सग्गंमिवि स होइ अणवत्था। भण्णइ तजयकरणे का अणवत्था जिए तम्मि?॥४८०॥
चोदयति शिक्षकः-हन्त यद्येवं कायोत्सर्गेऽपि सः-सूक्ष्मःप्रमादो भवति, ततश्च तत्रापि दोषः, तज्जयायापरकरणं, तत्राप्येष एव वृत्तान्त इत्यनवस्था, एतदाशङ्कयाह-भण्यते प्रतिवचनं-'तज्जयकरणे' अधिकृतसूक्ष्मप्रमादजयकरणे प्रस्तुते काऽनवस्था जिते 'तस्मिन्' सूक्ष्मप्रमाद इति गाथार्थः ॥ ८०॥
तत्थवि अ जो तओवि हु जीअइ तेणेव ण य सया करणं ।
सवोवि साहुजोगो जं खलु तप्पच्चणीओत्ति ॥ ४८१ ॥ 'तत्रापि च' इतरकायोत्सर्गे यः पूर्वोक्तयुक्त्या पतितः सूक्ष्मः प्रमादः 'तकोऽपि'असावपि 'जीयते' तिरस्क्रियते यदितरेण तदुत्तरकालभाविना कायोत्सर्गेण तत्रापि यः असावपीतरेण, स्यादेतद्, एवं सदा कायोत्सर्गकरणापत्तिरित्याशझ्याह-न च सदा करणं, कायोत्सर्गस्येति गम्यते, कुत इत्याह-सर्वोऽपि 'साधुयोगः' सूत्रोक्तः श्रमणव्यापारः यस्मात्, खलुशब्दो विशेषणार्थः भावप्रधान इत्यर्थः, 'तत्प्रत्यनीक'इति सूक्ष्मप्रमादप्रत्यनीकः, अत एव भगवदुक्तानुपूर्ध्या विहितानुष्ठानवन्तो
पाव.१४
Jain Education
For Private & Personal Use Only
Noww.jainelibrary.org