________________
सर्वस्य जीवराशेर्महासामान्यरूपस्य 'भावतः ' प्रणिधानेन धर्मनिहितनिजचित्तः सन् सर्व क्षमयित्वा क्षमे सर्व - ४ आवश्यकजीवराशेरहमपीति गाथार्थः ॥ ७१ ॥ विधिः
Jain Education Intern
एवंविहपरिणामा भावेणं तत्थ नवरमायरियं । खामंति सव्वसाहू जड़ जिट्टो अन्नहा जेट्टं ॥ ४७२ ॥
एवंविधपरिणामः सन्तः 'भावेन' परमार्थेन तत्र नवरमाचार्य प्रथमं क्षमयन्ति सर्वे साधवः यदि ज्येष्ठोऽसौ पर्यायेण, 'अन्यथा' ज्येष्ठे असति ज्येष्ठमसावपि क्षमयति, विभाषेत्यन्ये, शिष्यकादिश्रद्धाभङ्गनिवारणार्थं कदाचिदाचार्यमेवेति गाथार्थः ॥ ७२ ॥
आयरिय उवज्झाए काऊणं सेसगाण कायव्वं । उप्परिवाडीकरणे दोसा सम्मं तहाऽकरणे ॥ ४७३ ॥
आचार्योपाध्याययोः कृत्वा क्षमणमिति गम्यते, शेषाणां साधूनां यथारलाधिकतया कर्त्तव्यं, उत्परिपाटीकरणे, विपर्ययकरण इत्यर्थः, 'दोषाः' आज्ञादयः, सम्यक् तथा अकरणे विकलकरणे च दोषा इति गाथार्थः ॥ ७३ ॥ | जादुचरिमोति ता होइ खामणं तीरिए पडिक्कमणे । आइण्णं पुण तिण्हं गुरुस्स दोण्हं च देवसिए ४७४
यावत् 'द्विचरम' इति द्वितीयश्च स चरमश्च क्षमणापेक्षया, एतावद् भवति क्षमणं, 'तीरिते प्रतिक्रमणे' पठिते प्रतिक्रमणे इत्यर्थः, आचरितं पुनस्त्रयाणां गुरोर्द्वयोश्च शेषयोर्देवसिक इति गाथार्थः ॥ ७४ ॥ आचरितकल्पप्रवृत्तिमाहधिइसंघयणाईणं मेराहाणिं च जाणिउं थेरा । सेहअगीअत्थाणं ठवणा आइण्णकप्पस्स ॥ ४७५ ॥
For Private & Personal Use Only
www.jainalibrary.org