SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Jain Education सामायिकोच्चारणावसाने, अतिचारं चिन्तयन्ति दैवसिकं तेनैव गुरुणा समं- सार्द्ध, सामायिकमपि उच्चारयन्तीति भणन्ति अन्ये आचार्यदेशीया इति गाथार्थः ॥ ४८ ॥ ते चैवं भणन्तीत्याह आयरिओ सामइयं कड्डइ जाए तहट्टिया तेऽवि । ताहे अणुपेहंती गुरुणा सह पच्छ देवसिअं ॥४४९॥ आचार्यः सामायिकमाकर्षति - पठति उच्चारयतीत्यर्थः यदा 'तथास्थिताः' कायोत्सर्गस्थिता एव तेऽपि साधवः तदा 'अनुप्रेक्षन्ते' चिन्तयन्ति सामायिकमेव गुरुणा सह, पश्चाद्दैवसिकं चिन्तयन्तीति गाथार्थः ॥ ४९ ॥ जा देवसिअं दुगुणं चिंतेइ गुरू अहिंडिओ चिट्ठं । बहुवावारा इअरे एगगुणं ताव चिंतिंति ॥४५०॥ यावद् दैवसिक द्विगुणां चिन्तयति गुरुरहिण्डित इतिकृत्वा चेष्टां, बहुव्यापारा 'इतरे' सामान्यसाधवः एकगुणां तावच्चिन्तयन्तीति गाथार्थः ॥ ५० ॥ मुहणंत पडिलेहणमाईअं तत्थ जे अईआरा । कंटकवग्गुवमाए धरंति ते णवरि चित्तंमि ॥ ४५१ ॥ मुखवस्त्रिकाप्रत्युपेक्षणाद्यां चेष्टां 'तत्र' चेष्टायां येऽतिचाराः कण्टकमार्गोपमयोपयुक्तस्यापि जाता धारयन्ति तान् नवरं चेतसीति गाथार्थः ॥ ५१ ॥ किंविशिष्टाः सन्त इत्याहसंवेगसमावण्णा विसुद्धचित्ता चरित्तपरिणामा । चारित्तसोहणट्ठा पच्छावि कुणति ते एअं ॥ ४५२ ॥ 'संवेगसमापन्ना' मोक्षमुखाभिलाषमेवानुगताः 'विशुद्धचित्ता' रागादिरहितचित्ताः 'चारित्रपरिणामादिति चारित्रप For Private & Personal Use Only आवश्यक विधिः www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy