SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन - क्रिया २ ॥ ७१ ॥ Jain Education Inter | दिसिपवणगाम सूरिअछायाए मजिऊण तिक्खुत्तो । जस्सोग्गहोत्ति किच्चा ण वोसिरे आयमिज्जा वा ॥ ४२५॥ 'दिसिपवणगामसूरियत्ति दिक्पवनग्रामसूर्यान् विधिना अपृष्ठतः कृत्वा, छायायां संसक्तग्रहणीति गम्यते, प्रमृज्य 'त्रिकृत्व' इति त्रीन् वारान् स्थण्डिलमिति गम्यत एव ततो यस्यावग्रह इतिकृत्वा णमिति वाक्यालङ्कारे व्युत्सृजेत् संज्ञामिति प्रक्रमः, आचमेद्वा इत्थमेव स्थण्डिल इति गाथार्थः ॥ २५ ॥ भावार्थ त्वाह उत्तर पुवा पुज्जा जंमाए निसिअरा अहिवडति । घाणारिसा य पवणे सूरिअगामे अवण्णो उ ॥४२६ ॥ इह दिकूचिन्तायामुत्तरपूर्वे दिशौ पूज्ये, याम्यायां दिशि निशाचरा अभिपतन्ति रात्रौ अतः सदैव न पूर्वी पृष्ठतः कुर्यात्, नापि चोत्तरां, न रात्रौ दक्षिणामिति सम्प्रदायः, उक्तं चान्यैरपि - " उभे मूत्रपुरीषे तु, दिवा कुर्यादुदङ्मुखः । रात्रौ दक्षिणतश्चैव तथाऽस्यायुर्न हीयते ॥ १ ॥ " पवनमधिकृत्याह - 'घाणाशसि च' चशब्दालो कोपघातश्च पवन इत्यतः पवनमपि न पृष्ठतः कुर्यात्, ग्रामसूर्यावधिकृत्याह-ग्रामे सूर्ये अनयोर्द्वयोरपि पृष्ठिदाने 'अवर्ण' इत्यश्लाघा लोके, अत | एतावपि न पृष्ठतः कुर्यादिति गाथार्थः ॥ २६ ॥ छायामधिकृत्याह सत्तग्गणी पुण छायाए निग्गयाइ वोसिरइ | छायाses उमवि वोसिरिअ मुहुत्तगं चिट्ठे ॥ ४२७ ॥ दारं । संसक्तग्रहणिः पुनः, पुनःशब्दो विशेषणार्थः, भिन्नवच अप्येकच्छायायां पुष्पफलप्रदक्षिणा दिसम्बन्धिन्यां निगतायां For Private & Personal Use Only दिगादि - |ठ वर्जनम् ॥ ७१ ॥ jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy