SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन - क्रिया २ 11 00 || Jain Education Inter 'विषमप्रलुठने आत्मे' ति विषमस्थण्डिलोपविष्टप्रलुठने सत्यात्मा विराध्यते, इतरस्य तु पुरीषादेः प्रलुठने सति 'पङ्काया' इति पृथिव्यादयो विराध्यन्ते, तस्मात्सम उपवेष्टव्यं तथा 'शुषिरे' तृणाद्यवष्टब्धे वृश्चिकादय इति, तेभ्य आत्मोपघातः, 'उभयाक्रमण' इतिपुरीषकायिकाभ्यामाक्रमणे त्रसादयो व्यापद्यन्ते इति संयमोपघात इति गाथार्थः ॥ २० ॥ अचिरकालकृतमाहजे जंमि उउम्मि कया पयावणाईहिँ थंडिला ते उ । होंति इअरंमि चिरकया वासावुत्थे अ बारसगं ॥ ४२१ ॥ यानि यस्मिन् 'ऋतौ' हेमन्तादौ कृतानि प्रतापनादिभिः कारणैः स्थण्डिलानि तानि भवन्ति अचिरकालकृतानि, इतरस्मिन्ग्रीष्मादौ ऋतौ चिरकालकृतानि, तन्नैवाचिरकालकृतानीति भावः वर्षोषिते च ( 'व्युत्थे'त्ति व्युषिते च ) ग्रामादौ द्वादशक' मिति वर्षद्वादशकं यावदचिरकालकृतानीति गाथार्थः ॥ २१ ॥ विस्तीर्णदूरावगाढे अभिधित्सुराहहत्थाययं समंता जहन्नमुक्कोस जोअणविमुक्कं (बिछक) । दारं । चउरंगुलप्पमाणं जहन्नयं दूरमोगाढं ॥ ४२२ ॥ 'हस्तायतं' हस्तविस्तीर्ण 'समन्तात् ' सर्वतः आयामविष्कम्भाभ्यां जघन्यं स्थण्डिलं, उत्कृष्टं 'योजनद्विषट्ङ्क' मिति द्वादशयोजनं विस्तीर्ण चक्रवर्त्तिकटक निवेशादी, शेषं हि मध्यममिति गम्यते, चतुरङ्गुलप्रमाणं जघन्यं दूरावगाढमिति, अत ऊर्ध्वमुत्कृष्टादिविभागः, अत्र च वृद्धसम्प्रदायः - चउरंगुलोगाढे सण्णा वोसिरिज्जइ, ण काइया इति गाथार्थः ॥ २२ ॥ अधुनाऽऽसण्णमाह For Private & Personal Use Only अचिरकृतविस्तीर्ण दूरावगा ढानि 1.11 10 11 www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy