SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Jain Education प्रद्वेषणादय' इति अदाने तुच्छयाञ्चायां ते एव क्षुद्रजन्तुत्वात् प्रद्वेषमापद्यन्ते, शासनावर्णवादं गृह्णन्ति तथा च सति संसारे पतन्त्यनर्थ प्राप्नुवन्ति, तदेतद्वस्तुतो निमित्तकारणत्वेन कृतं भवतीति प्रच्छन्ने भोक्तव्यमिति गाथार्थः ॥ ९१ ॥ भूलद्वारगाथायां पात्रकधावनद्वारं व्याख्यातं, तदनन्तरं यद्विधेयं तद्दर्शयति संवरणं तयांत रमेक्कासणगेऽवि अप्पमायत्थं । आणाअणुहवसे आगारनिरोहओ अण्णं ॥ ३९२ ॥ पत्तगधुवणत्ति दारं गयं । पात्रधावनानन्तरं प्रत्याख्यानं विधेयं, यद्यपि प्रागेवैकाशनकं प्रत्याख्यातं तथापि भुक्त्वा प्रत्याख्यानं ग्राह्यं, अप्रमादार्थ, तथाऽऽज्ञानुभवात् श्रेयः, एतदाकारनिरोधतश्चान्यत्प्रयोजनं, 'सागारियागारेणेणं गुरुअब्भुट्ठाणेणं आउंटणपसारणेणं पारिट्ठावणियागारेणं' इत्येते प्राकू आकारा गृहीताः तेषां निरोधार्थं पुनरपि प्रत्याख्यानं विधेयमिति ॥ ९२ ॥ अधुना | विचारद्वारमाह कालमकाले सण्णा कालो तझ्या ऍ से सगमकालो | पढमापोरिसि आपुच्छ पाणगमपुप्फि अण्ण दिसिं३९३ कालाकालयोः संज्ञा, 'संज्ञे'ति समयपरिभाषया पुरीषोत्सर्गः, स काले अकाले च भवति, तत्र कालस्तृतीयायां पौरुष्यां तस्यां औचित्येन, शेषः अकालः, स्वाध्यायादिहानिप्रसङ्गात् प्रथमायां पौरुष्यां संज्ञाभावे सत्यापृच्छय शेषसाधून् पानकमपुष्पितमन्यस्यां दिशि ग्राह्यमिति गाथाक्षरार्थः ॥ ९३ ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् - " सण्णा For Private & Personal Use Only आकारसं ४ वराय प्रत्याख्यानं संज्ञा गा. ३९२-३ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy