________________
Jain Education Intern
'तेभ्यः' प्राघूर्णकादिभ्यः शेषं भुञ्जीत गुर्वनुज्ञातः सन् अथ कथञ्चिदक्षणिको गुरुः ततो गुरुणा सन्दिष्टो वा सन् दत्त्वा विधिभ प्राघूर्णकादिभ्यः शेषं ततो भुञ्जीत, शेषमिति न तेभ्य उद्धरितमेव किं त्वप्रधानमपि शेषमुच्यते, यथोक्तं- 'सेसावसेसं ४ तयोः श्रेठिद्विकोलभऊ तवस्सी' इति गाथार्थः ॥ ४५ ॥ यदि तु नेच्छति कश्चित् तत्र का वार्त्तेत्याहदाहरणं
| इच्छिज्ज न इच्छिज्ज व तहवि अ पयओ निमंत साहू । परिणाम विसुद्धीए निज्जरा होअगहिएऽवि ॥ ३४६ ॥
इच्छेत् नेच्छेद्वा यद्यप्येवं तथापि च 'प्रयतो' यत्नपरः सन् निमन्त्रयेत् 'साधून्' निर्वाणसाधकानेव, किमित्येतदेवमित्याह- यस्मात्परिणामविशुद्धयैव निमन्त्रणकालभाविन्या निर्जरा भवत्यगृहीतेऽपीति गाथार्थः ॥ ४६ ॥ व्यतिरेकमाह| परिणाम विसुद्धीए विणा उ गहिएऽवि निज्जरा थोवा । तम्हा विहिभत्तीए छंदिज तहा वि (चि) अत्तिज्जा३४७
परिणामविशुद्ध्या विना तु गृहीतेऽप्यशनादौ प्राघूर्णकादिभिः निर्जरा स्तोका, न काचिदित्यर्थः यस्मादेवं तस्माद्विधिभक्तिभ्यां छन्दयेत्-निमन्त्रयेत्, तथा च न लाटपञ्जिकामात्रं कुर्यादिति गाथार्थः ॥ ४७ ॥ एतदेवोदाहरणतः स्पष्टयति-आहरणं सिट्टिदुगं जिणंदपारणगऽदाणदाणेसु । विहिभत्तिभावऽभावा मोक्खंगं तत्थ विहिभत्ती ॥ ३४८ ॥
उदाहरणमत्र 'श्रेष्ठद्वयं' जीर्णश्रेष्ठी अभिनवश्रेष्ठी च, जिनेन्द्रपारणकादानदानयोरिति, अदाने दाने च विधिभक्तिभावाभावात्, एकत्र विधिभक्त्योर्भावः अन्यत्राभावः, मोक्षाङ्गं तत्र विधिभक्ती, न तद्रहितं दानमपीति गाथार्थः ॥ ४८ ॥ एतदेव स्पष्टयति
For Private & Personal Use Only
www.jainelibrary.org