________________
Jain Education Inte
| एअद्दोसविमुक्का गुरुणो गुरुसंमयस्स वाऽऽलोए। जं जह गहिअं तु भवे पढमाया जा भवे चरमा ॥ ३३४॥ 'एतद्दोषविमुक्त' इति नर्त्तितादिदोषरहितः सन् 'गुरोः' आचार्यस्य 'गुरुसम्मतस्य वा' ज्येष्ठार्यस्य आलोचयेत्, किमि त्याह- 'यद्' ओदनादि 'यथा' येन प्रकारेण डोवादिभाजनादिना गृहीतं, तुशब्द एवकारार्थः, गृहीतमेव भवेत्, न प्रतिषिद्धमालोच्यत इति, कुत आरभ्य इत्यवधिमाह - प्रथमायाः भिक्षाया इति गम्यते आरभ्य यावद् भवेच्चरमा - पश्चिमा भिक्षेति गाथार्थः ॥ ३४ ॥ अपवादमाह–
काले अपहुप्पंते उल्बाओ वावि ओहमालोए । वेला गिलाणगस्स व अड्गच्छइ गुरु व उब्बाओ॥ ३३५॥
ard प्रभवति सति 'उद्याओ वावि'त्ति श्रान्तो वा भिक्षाटनेनेति 'ओहमालोए' सामान्येनालोचयेत्, वेला ग्लानस्य वाऽतिगच्छति, गुरुर्वा श्रान्तः श्रुतचिन्तनिकादिनेति सामान्येनालोचयेत्, यदि शुद्धैव ततः प्रथमपश्चिमे सर्वसाधुप्रायो|ग्यमित्यादीति गाथार्थः ॥ ३५ ॥ एतदेव भावयति —
| पुरकम्म पच्छकम्मे अप्पे सुद्धे अ ओहमालोए । तुरिअकरणंमि जं से ण सुज्झई तत्तिअं कहए ॥ ३३६ ॥
पुरः कर्म्म पश्चात्कर्मेत्येते प्रथमपश्चिमे प्राभृतके गृह्येते, 'अल्पेऽशुद्धे' इत्यत्राल्पशब्दोऽभाववचनः, अशुद्धाभावे सति सामान्येनालोचयेत्, 'अग्गिलिया पच्छिलिया सेसं साहूण पायोग्गं', त्वरितकरणे यत्तन्न शुद्ध्यति, अशनादीति गम्यते, तावन्मात्रं 'कथयेत्' आलोचयेत्, अन्ये तु व्याचक्षते - पुरः कर्म पश्चात्कर्मग्रहणेन दोषपरिग्रह एव ततश्चाल्पेऽशुद्ध इति
For Private & Personal Use Only
ओघालो
चना
www.jainelibrary.org